________________
९०
परशुरामकल्पसूत्रम्
परिकल्प्य तद्वदादिमं संयोज्य तत्रोपादिमं मध्यमं च निक्षिप्य वह्नयर्केन्दुकलाः अभ्यर्च्य वक्रतुण्डगायत्र्या गणानां त्वेत्यनया ऋचा चाभिमन्त्रय अस्त्रादिरक्षणं कृत्वा तद्दिन्दुभिस्त्रिशः शिरसि गुरुपादुकामाराधयेत् ॥ ६॥
66
मूलेनेति सप्तवार मित्यस्यादिः । क्वचित्तथैव प्राठः । त ज्ज लेन सामान्यायदकेन पूर्वोक्तं त्रिकोणादिरूपं मण्डलं संस्कृतदेशविशेषम् । तद्वत् सामान्यायदकवत् । आदि मं प्रथमं संयो ज्ये त्यनेन तदन्ता क्रिया तद्वदित्यतिदिश्यते । तेन आधारपात्रस्थापनयोरपि लाभः । क्वचित् संशो ध्ये ति पाठः । चकारेण चतुर्थपञ्चमयोर्ग्रहणम् । पूर्वस्मादत्र यो विशेषस्तमाह — वह्नीति | आधारे वह्नि कलाः धूम्राचिरादयः, पात्रे सूर्य क लाः तपिन्यादय:, अमृते अमृतादयश्चन्द्र कलाः चतुर्थ्यन्ततत्तन्नामभिः प्रागादिप्रादक्षिण्येन वृत्ताकारं यजेत् । दिनियमो वृत्ताकारनियमश्च यः तन्मूलं परमानन्दतन्त्रे अष्टमोल्लासे द्रष्टव्यम् | आधारस्थापनोत्तरं तत्र दशवह्निकलाः संपूज्य ततः पात्रं स्थापयेत् । एवमन्यत्रापि । वक्रतुण्ड गायत्र्या तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् । " इत्यनया । " गणानां त्वा" इतीयमृक् प्रसिद्धा । कचित्पाठे समग्रपाठोऽपि दृश्यते । अभिमन्त्रणं नाम मन्त्रपठनकाले संस्कार्यद्रव्यस्पर्शः । अस्त्रा दी त्यादिपदेन कवचम् । ते उभे पूर्वं व्याख्याते । रक्षण मिति अवकुण्ठनस्याप्युपलक्षणम् । तथा च अस्त्रमन्त्रेण संरक्ष्य अवकुण्ठ्य कवचमन्त्रेणेत्यर्थः । यद्यपि " तद्वदादिमं संयोज्य " इत्यनेनैव अस्त्रादीनां प्राप्तिसंभवे पुनर्विधानं व्यर्थम् ; तथाऽपि पूर्व धेनुयोनिमुद्रे स्थिते तन्निवृत्त्यर्थं पुनः कथनं ज्ञेयम् । तद्विन्दुभिः संस्कृतप्रथमबिन्दुभिः त्रिशः त्रिवारं शिरसि विधिबिले गुरु पादुका मा राधयेत् । आराधनं नाम गुरुपादुकोद्देशेन 2 ' मध्यमं ' इति नास्ति - ब २. आदिमोपादिमयोरेव ग्रहणात् अत्र चतुर्थपञ्चमयोनिवृत्तिः । यद्वा – “ योग्यैः सह मपञ्चकमुररीकृत्य ” इति अग्रे मपञ्चकस्वीकार लिङ्गात् चकारेण आवश्यकम् । युक्तश्चायमेव पक्षः । - इति ब२ कोशे,
संशोध्य - अ.
1
3