________________
द्वितीयः खण्डः—गणनायकपद्धतिः गन्ध पुप्पा क्ष तैः पूजि ते न शु द्धे न पवित्रेण पटपूतेन वा रिणा त्रि को ण षट् को णवृत्त च तुर श्रा णि विधा य निर्माय तस्मिन् निर्मितत्रिकोणादिसंघात्मके मण्डले वि कीर्य 'क्षिप्त्वा । वह्नयादिशब्दाः तत्तंदिग्लक्षणाः । म ध्ये पूर्वादि दि क्षु च षडङ्गा नि मूलषडङ्गानि । विदिक्ष्विति लघुसूत्रे कर्तव्ये वहीशेति गुरुसूत्रं क्रमविशेषलाभार्थम् । अत्र यद्यपि वाक्येन अनि म ण्ड ला य नमः इत्यारभ्य शुद्ध ज ल मापूर्ये त्यन्तेन आपूरणशेषत्वं सर्वस्य प्रतीयते, तथाऽपि “ सूक्तवाकेन प्रस्तरं प्रहरति" इतिवत् लिङ्गेन विभज्यैव मन्त्राणां त्रयाणां आधा राय नमः पात्रा य नमः अमृ ता य नमः इत्यन्तानां आधारस्थापनपात्रस्थापनजलपूरणेषु प्रत्येकं शेषत्वं वाच्यम् ; वाक्यात् लिङ्गस्य प्रबलत्वात् । वस्तुतस्तु—“ अर्थैकत्वादेकं वाक्यं साकांक्षं चेद्विभागे स्यात्' इति जैमिनिसूत्रोक्तवाक्यलक्षणाभावात् न वाक्यविरोधोऽपि। कचित् पुस्तके अळपात्राय नमः इत्येतदुत्तरं " इत्याधारपात्रे धृत्वा' इति पाठः । तदा न विवादः । शुद्ध ज लं पूर्वोक्तम् । अत्र द्वितीया तृतीयाऽर्थे, सक्तुवत् , दृष्टफलसंभवात् । यद्वा-" स्रुचः संमाष्टि” इतिवत् गुणकर्म, आपूरणक्रियया जलं संस्कुर्यादिति । तथा च अस्मिन् पक्षे द्वितीयैव यथाश्रुता । अस्त्रेण अस्त्रमुद्रया संरक्ष्य रक्षोभूतादियागविघ्नकर्तदुराधर्षे कृत्वा । यद्वा--अस्त्रेण फट् इति मन्त्रेण पूर्ववत् कृत्वा । कव चे न हुं इति मन्त्रेण अव कु ण्ठ्य अन्यत्र गमनशक्तिरहितं कृत्वा ॥
निबन्धकारस्तु मन्त्रमुद्राद्वयं अस्त्रपदेनोवाच । तन्न, “ सकृदुच्चरितः शब्दः सकृदेवार्थ गमयति" इति न्यायात् , आवृत्तौ वाक्यभेदप्रसङ्गात् ॥
__ अत एव पूर्वविलक्षणत्वात् धेनु यो नि मुद्रां प्रदर्शयेत् इत्युक्तम् । एतेन न ते मुद्रे पूर्वतने, मन्त्र इति स्पष्टम् । मुद्रां इत्येकवचनमार्षम् । धेनुसहितयोनिरिति मध्यमपदलोपी समासो वा कार्यः ॥ ५ ॥
अर्घ्यसंस्कारः एवं मुद्राप्रदर्शनान्तमुक्त्वा सूत्रान्तरेण संस्कारशेषानाह- .
'सप्तवारमभिमन्य तज्जलवि ड्भिरात्मानं पूजोपकरणानि च संप्रोक्ष्य तज्जलेन पूर्वोक्तं मण्डलं 1 मूलेनस-श्री.
12