SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् दक्षसंबन्धस्तथा । अतः सूत्रपाठक्रमानुरोधेन रुद्रयामळवचनानुरोधेन च वक्ष्यमा - द्वन्द्वानां संमुखतैव युक्ता । मातुलुङ्गगदे चापशूलौ शङ्खचक्रे पाशोत्पले धान्यमञ्जरी निजदन्तौ, अमीषां द्वन्द्वानां मध्ये प्रथमं प्रथमं वामोर्ध्वकरे द्वितीयं दक्षोर्ध्वरे । अनेन क्रमेण अधोऽधो योज्यम् । एवं युग्मपञ्चकैः दशभुजेषु व्यावृत्तेषु कलशं परिशिष्टे शुण्डादण्डे ज्ञेयम् । यद्यपि यामळवचने दन्तस्थानं नोक्तं, तथाऽपि परिशेषात् दक्षाधः । धान्यमञ्जरी फलान्तर्भूता, अतो वामभागनियमः || ८८ (C प्रभिन्नः प्रस्रवन् कटो गण्डो यस्य तम् । गण्डः कटो मदो दानं " इत्यमरः । आनन्द पूर्ण पूर्णानन्दं इत्यर्थः । अशेषा ये विघ्न जनिताः ध्वंसाः अनिष्टकलापाः तेषां निघ्नं नाशकं विघ्नेश्वरं उक्तगुणविशिष्टं ध्या ये त् ॥ ४ ॥ अर्घ्यस्थापनम् एवं ध्यानान्तमुक्त्वा ततोऽर्घ्यस्थापनविधिं वक्तुमारभते — पुरतो मूलसप्ताभिमन्त्रितेन गन्धाक्षतपुष्पपूजि - तेन शुद्धेन वारिणा त्रिकोणषट्कोणवृत्तचतुरश्राणि विधाय तस्मिन् पुष्पाणि विकीर्य वह्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि विन्यस्य अग्निमण्डलाय दशकलाSSत्मने अर्घ्यपात्राधाराय नमः सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्राय नमः सोममपडलाय षोडशकलाऽऽत्मने अर्ध्यामृताय नम इति शुद्धजलमापूर्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य 'धेनुयोनि मुद्रां प्रदर्शयेत् ॥ ५ ॥ पुरत इत्यस्य कस्येत्याकांक्षायां योग्यत्वात् स्वस्येति शेषः । एतेन दक्षवामभागयोः व्यत्यासः । मूलेन सप्तत्वं आवृत्त्या संपादनीयम् तैः अभिमन्त्रिते न 1 • धेनुमुद्रां प्रदर्श्य यो- अ, श्री. 2 मुद्रे --ब १.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy