________________
द्वितीयः खण्डः-गणनायकपद्धतिः यद्यपि श्रीमहागणपतिमूर्तेः दश भुजाः प्रसिद्धाः, अत्रैकादशेति विरुद्धं, तथाऽपि पाणिपदेन शुण्डादण्डोऽप्यत्र ग्राह्यः, तत्र पाण्यपरपर्यायेण करः हस्तः इति व्यवहारात् , करी हस्तीति सर्वलोकप्रसिद्धेः । इत्थं च दश भुजाः, एकादशः शुण्डादण्डः इति तदभिप्रायेण सूत्रकृता भगवता पाण्येकादशकमित्युक्तम् ॥
आयुधस्थाननियमः अत्र आयुधानां दक्षवामादिनियमो नोक्तः, तथाऽपि सामान्यपरिभाषया आयुधस्थानानि योज्यानि । तदुक्तं रुद्रयामळे
आयुधानां तु ते ध्यानं ब्रवीमि शृणु शाङ्करि । खड्गबाणाङ्कुशगदाज्ञानशूलभुसुण्ढिकाः ॥ भल्लो दण्डो वज्रशक्ती परिघप्रासतोमराः । मालामुसलपरशुमुखा दक्षकस्थिताः ॥ पाशशङ्ख चापफलं चर्मखटाङ्गपुस्तकम् । घण्टाडमरुमुण्डं च वामहस्ते सुसंस्थितम् ॥ वराभये शङ्खचक्रं पुप्पपात्रं द्वयस्थितम् ।
अनुक्ते वामदक्षेधःप्रादक्षिण्यक्रमान्नरैः ॥ योज्यानि सर्वायुधानि ज्ञेयानि परमेश्वरि ।
"चक्रशङ्खौ तथाऽभीतिवरौ संमुखसंस्थितौ ॥ इति ॥ अस्यार्थः----
____ आयुधस्थानानुक्तौ खड्गादिपरश्वन्ता दक्षकरे नियताः । पाशादिमुण्डान्ताः वामे नियताः । शङ्खादिपात्रान्ताः इच्छया उभयत्रापि । पाशाङ्कुशादियुग्मपञ्चकं संमुखे । यत्सङ्ख्याकदक्षकरे युग्मान्यतरं तत्सङ्ख्याकवामकर एवापरम् । वामोर्ध्वादारभ्य दक्षोर्ध्वक्रमे प्रदक्षिणक्रमः, विपरीते त्वप्रदक्षिणक्रमः । द्वयोर्विकल्प इत्यर्थः । प्रकृते गणपत्यायुधे न प्रदक्षिणाप्रदक्षिणक्रमौ संभवतः । तथा हि-मातुलुङ्गचापशङ्खधान्यमञ्जरीणां उक्तवचनानुसारेण वामकरसंबन्ध आवश्यकः । गदाशूलचक्रोत्पलदन्तानां
1 अनुक्तेषु वामदक्षप्रादक्षिण्येतरक्रमैः । युक्त्या सर्वत्रायुधानि-अ, ब १. 2 " पाशाङ्कुशौ धनुर्बाणखड्गचर्माणि शंकरि” इत्यधिकः ब. कोशे. .