________________
परशुरामकल्पसूत्रम्
कर्मसामान्येन संबद्धं एवमेव संकल्पोऽपि । एतदनुगुणानि वचनानि च सन्ति ।। यथा
अनाचम्य कृतं यच्च यच्च संकल्पवर्जितम् ।
राक्षसं तद्भवेत् कर्म . . . . . . . ॥ इति दानधर्मे महाभारतवचनम् ।
आदौ सङ्कल्प उद्दिष्टः पश्चात्तस्य समर्पणम् ।
अकुर्वन् साधकः कर्मफलं प्रामोत्यनिश्चितम् ॥ इति रुद्रयामळवचनाच्च । तथैव शिष्टाचारोऽपि । अतः सः आवश्यकः इति गाणनायक्याः सपर्याया अपि श्रीविद्याऽङ्गत्वादावश्यक एव संकल्पः । अष्टाङ्गोल्लेखनं च
अवश्यं तान्त्रिकं कालमुल्लिखेदन्यथा शिवे ।
बहिर्मुखं तु तत्कर्म भवेद्भस्महुतं यथा ॥ इति यामळवचनादष्टाङ्गोल्लेखनमावश्यकम् । एवमेव श्यामाऽऽदौ ज्ञेयम् ॥
ततः षडङ्गा नि मूलमन्त्रषडङ्गानि हृदयादिस्थानेषु विन्य भ्य स्थापयित्वा सकल मू ले न करतलाभ्यां सर्वाङ्गे विन्यसेत् । इदमेव व्या पक कर णम् । तदुक्तं परमानन्दतन्त्रे
तलाभ्यां निखिलाङ्गस्य स्पर्शनं व्यापकं भवेत् ॥
अत्र निबन्धोक्तं “रक्तद्वादशशक्ति युक्ताय” इत्यारभ्य “मातृकान्यास विदध्यात्' इत्यन्तं अश्रद्धेयम् ॥
___ स्वात्म नि स्वहृदये। आत्मशब्दो मनसि प्रसिद्धः । मनोहृदययोरैक्यात् तदर्थत्वम् । आद्यविशेषणचतुष्टयार्थः स्पष्टः । मा तुलुङ्गं फलविशेषः । गदा आयुधविशेषः । पुण्ड्रेक्षुः नानारेखायुक्तेक्षुः, अनेकवर्ण इति यावत् । तद्रूप का मुक श्चापः । शूल: आयुधविशेषः । सुदर्श नं चक्रम् । शंख पा शौ प्रसिद्धौ । उत्प लं कमलम् । शेषाणि प्रसिद्धानि । एवं मातुलुङ्गादिरनकलशान्तैः प रि प्कृतं पाण्ये काद श कं यस्येदृशम् ॥ ' नाथाय-ब,
.. अनेकरूप इति-ब२.