________________
द्वितीयः खण्डः-गणनायकपद्धतिः यत्रान्यतो ग्राह्यं सूचितं यथाऽऽसनमन्त्रेणेति तद् ग्राह्यं, न केनचिदविचार्य लिखितं प्रमाणम् । प्रमाणाभावात् तदनुष्ठाने नापूर्व भवेत् । यदि भवेत् तर्हि अग्निहोत्रे दर्शपूर्णमासधर्मातिदेशः, दर्शपूर्णमासयोः ज्योतिष्टोमधर्मातिदेशोऽपि भवेत् । तस्मादप्रमाणं स्वेच्छया संकीर्णो निबन्धोऽश्रद्धेयः इत्यलमतिविस्तरेण ॥
किं च---एकक्रियायाः प्रकृतिरेका शास्त्रे दृष्टा, न हि नानाप्रकृतिका एका विकृतिर्दृष्टा श्रुतपूर्वा वा आसीत् । अयं निबन्धकारः कांश्चिद्धर्मान् पराप्रकरणस्थान् सौरित्यनेन आसनप्रोक्षणादिरूपान् ताम्बूलभक्षणादिरूपान् 'श्रीविद्याप्रकरणस्थांश्च, इत्येवं नानाप्रकरणस्थान् एकत्र अतिदिशन् कथं धर्मतत्त्वज्ञो भवेत् ॥
__ न च यथा ज्योतिष्टोमस्य ये धर्माः तेषां द्वादशाहे अतिदेशः, ततः अतिदिष्टतत्प्रकरणस्थधर्मयोर्द्वयोः यथा द्विरात्रादावतिदेशः, तद्वत् मूलप्रकृतिः श्रीविद्या, ततोऽतिदेशेन प्राप्ताः परायां ताम्बूलादयः, तत्सहितः योऽसावासनप्रोक्षणरूपो विशेषधर्मः स सर्वोऽपि द्विरात्रादिस्थानापन्ने गणपतावतिदिश्यताम् । तथा सति न नानाप्रकृतिकत्वं इति वाच्यम् । यदि श्रीप्रकृतिका परा, तर्हि भूषणधारणस्य अतिदेशेनैव प्राप्तौ तत्प्रकरणे भूषितविग्रह इति व्यर्थम् । एवं वामपाणिघातादिकं बहुतरं व्यर्थम् । अतो न प्रकृतिविकृतिभावस्तयोः संभवति । अतो येषां प्रत्यक्षवचनमस्ति यथाऽत्रैव सूर्याान्तविधिः, एवं पराप्रकरणे श्यामावत् सामान्य विशेषायें साध (द) येदित्यादि, यत्र चाकांक्षाऽपरिपूर्तिः सर्वथा, तादृशस्थल एव अन्यधर्मस्पर्शः, अन्यत्र 'न युक्तमिति राद्धान्तः । अनयैव दिशा निबन्धे निर्मूलसंकीर्णधर्माणां परित्यागोऽन्यत्र द्रष्टव्यः ॥
प्राणा या मः श्वासनिरोधः, तं कुंभकरेचकादियुक्तं विधाय । प्राणायामे मन्त्रो मूलम् ॥
संकल्पावश्यकता ततः संकल्पमपि सामान्यशास्त्रेण प्राप्तं कुर्यात् । श्रीविद्योपास्तौ निर्विघ्नतासिद्धयर्थ महागणपतिक्रमं निर्वर्तयिष्ये इति संकल्पः । न च संकल्पस्य सूत्रे अनुक्तत्वात् कथं ग्रहणं इति शङ्कनीयम् । शुचित्वमुपवीतं अव्यभिचारेण यथा 1 'तन्त्रान्तरे' इत्यधिक:-ब.
9 यावदुक्तं कर्तव्यमिति रा–ब२.