________________
परशुरामकल्पसूत्रम् अतिदेशस्त्रिविधः-वचनातिदेशः, नामातिदेशः, आकांक्षया आनुमानिकातिदेशः । तन्मध्ये कीदृशोऽतिदेशः । न वचनं—“ समानमितरच्छयेनेन" इतिवत् ‘शेष श्रीक्रमेण समं' इतिवचनं अस्ति । अतो नाद्यः । एवं “मासमग्निहोत्रं जुहोति" इतिवत् "श्रीक्रमं कुर्यात्' इति तन्नाम्ना व्यवहारो न ह्यस्ति । अतो न द्वितीयः । तृतीयोऽतिदेशो यथा--" सौर्य चरुं निर्वपेत् ब्रह्मवर्चसकामः' इत्युक्ते कमियोगात् ब्रह्मवर्चसं किं कुर्यादिति कर्माकाङ्क्षापूरकम् । ततः केन कुर्यात् इत्याकाङ्क्षायां धात्वर्थः करणत्वेन अन्वेति । कथं कुर्यात् इत्याकांक्षापरिपूरकतया अङ्गकलापो न पठितः । तत आकांक्षाशामकं ओषधीद्रव्यकत्वेन व्यक्तलिङ्गकत्वेन सादृश्यात् दर्शपूर्णमासवदिति पदं कल्प्यते-सौर्य चरुं दर्शपूर्णमासवत् निर्वपेत् इति वाक्यम् । ततश्च दर्शपूर्णमासधर्माः प्राप्नुवन्ति । नात्र तथाऽऽकांक्षाऽस्ति, साङ्गप्रधानस्यात्र पाठात् ॥
किं च यद्यतिदेशेनैव धर्मप्राप्तिः तर्हि श्रीक्रमे “पीठमनुना आसने समुपविष्टः” इति वचनेन आसनमन्त्रस्य कुप्तत्वात् अतिदेशेनैव प्राप्तौ पुनर्विधानं व्यर्थं सत् गृहमेधीयाज्यभागन्यायेन यावदुक्तं कर्तव्यं नातोऽधिकमिति स्पष्टीकरोति । इत्थं च कथमेतदतिरिक्तानां प्राप्तिर्भवेत् । किंच-श्रीक्रमाद्धर्मप्राप्तिरतिदेशेन भवति, तत् किं यावदङ्गानां भवतीत्युच्यते, आहोस्वित् यत्किंचिद्धर्माणाम् । आये चतुर्नवतिमन्त्रैः अभिमन्त्रणाभावः केन सिद्धः । न हि " नार्षेयं वृणीते न होतारम्" इतिवत् सूत्रे चतुर्नवतिमन्त्रैरभिमन्त्रणं न कर्तव्यमित्यस्ति, येन तन्निवार्यते । 'यश्च यत्किंचिद्धर्मातिदेश इति पक्षः स च देवानांप्रियाणामेव प्रियो भवितुमर्हति न पण्डितानाम् ॥
तस्मात् पूर्वोक्तधर्मप्रापकं सर्षपमात्रमपि प्रमाणं न पश्यामः । एवमत्रत्याः केचन निर्मूलं श्रीक्रमे लिखिताः । एवं श्यामाक्रमोक्ताः निष्प्रमाणाः श्रीक्रमे अन्यत्र च प्रक्षिप्ताः । न हि प्रमाणरहितो धर्मों भवितुमर्हति । अतो मीमांसागन्धानभिज्ञेन केवलसंस्कृतभाषाऽभिज्ञेन स्वेच्छया सांकर्य प्रापितो यो निबन्धः तमाश्रित्य सुधियोऽप्यनुतिष्ठन्ति । अत्र केऽपि परिशोधनं न कुर्वन्ति । अत्र कलियुगशक्तिरेव बीजं नान्यदिति युक्तमुत्पश्यामः । तस्मात् तत्रत्यानि नानुष्ठेयानि । यावदुक्तं कर्तव्यम् ।
1 मन्मते तु. प्रकृतिविकृतिभावाभावात् यावदुक्तं कर्तव्यमिति, अत्र तदुक्त्यभावात् चतुर्नवतिमन्त्रैरनभिमन्त्रणं युक्तम् । तव मते संदर्भविरुद्धम्" इत्यधिक: पाट:-ब २.