________________
द्वितीयः खण्डः-गणनायकपद्धतिः आसने स्थित्वा प्राणानायम्य षडङ्गानि विन्यस्य मूलेन व्यापकं कृत्वा स्वात्मनि देवं सिद्धलक्ष्मीसमाश्लिष्टपार्श्व अर्धेन्दुशेखरमारक्तवर्णं मातुलुङ्गगदापुण्ड्रेक्षुकार्मुकशूलसुदर्शनशंखपाशोत्पलधान्य - मञ्जरीनिजदन्ताञ्चलरत्नकलशपरिष्कृतपाण्येकादशकं प्रभिन्नकटमानन्दपूर्णमशेषविघ्नध्वंसनिघ्नं विघ्नेश्वरं ध्यात्वा ॥४॥
अथ-----अधिकारान्तरवाक्य मिदम् । एतेन तर्पणप्रकरणं समाप्तम् । तथा च प्रकरणेन तर्पणोपासनयोः अङ्गाङ्गिभावः सूचितः । तेन दीक्षाऽङ्गक्रमे तर्पणस्य नातिदेशः। उच्यते इति शेषः । गृहमा गत्ये त्यनेन तर्पणं नद्यादौ गृहाहहिः कार्यमिति सूचितम् । स्थ ण्डि लं यागदेशं उप लि प्य गोमयेनेति शेषः ॥
स्थलशुद्धिः प्रमाणान्तरप्राप्ता अनूद्यते । अनेन क्रमो न विवक्षितः । यदि चानुवादे फलाभावात् वैय्यर्थ्य भिया क्रमप्राप्त्यर्थमत्र पाठः इत्युच्यते, तदा द्वारपूजाऽव्यवहितप्रागेवोपलेपः कार्यः॥
उभ य पार्श्व यो रित्यत्रानादेशाद्दक्षिणं प्रथमं पश्चाद्वामम् । दक्षवामौ द्वाराबहिर्निर्गमनवेळायां यौ तौ ग्राह्यौ, तत्रैव तथा व्यवहारात् , न तु प्रवेशवेळायाम् । नमः इत्युत्तरं यजेदिति शेषः । मन्त्रलिङ्गावगता देवता । अन्तः प्र वि श्ये त्यनेनैव द्वारपूजा बहिः स्थित्वैव कार्या इति सिद्धम् । आ स न मन्त्रेणे त्यनेन श्यामाप्रकरणपठितो मन्त्रो ज्ञेयः, सन्निकृष्टत्वात् । अत एव न तन्त्रान्तरस्थं ग्राह्यम् ॥
निबन्धोक्तनिर्मूलधर्मप्रदर्शनम् यत्तु निबन्धे दीपानभितः प्रज्वाल्येति, ताम्बूलभक्षणं, बालातृतीयबीजेनासनप्रोक्षणं लिखितं तं प्रति अयं प्रश्नः---एतत्प्रापकं प्रमाणं तन्त्रान्तरं, किं वा एतत्तन्त्रे दीपप्रज्वलनादिकमग्रे श्रीक्रमे उक्तं, बालातृतीयबीजेनासनप्रोक्षणं परापद्धतावुक्तं,तेषां सर्वेषां प्रापकमतिदेशशास्त्रं वा। नाद्यः, तस्य पूर्वमेव निरस्तत्वात् । द्वितीये,