________________
परशुरामकल्पसूत्रम्
क्रियाऽभ्यासः स्यात्तदा सकृदेव मन्त्रपठनं प्रसज्येत । तच्च अग्रिमसंख्याऽनुरोधेन निरस्तम् । यद्वा-द्रव्यपृथक्त्वेन क्रियाssवृत्तावपि मन्त्रावृत्तिर्भविष्यति, तथाऽप्यग्रे मन्त्रावृत्तेः स्पष्टत्वात् तत्सहचरिते अत्रापि मन्त्रावृत्तिरेव । चतुर्वारमित्यनन्तरं उच्चार्येति शेषः । स्वाहा ऽन्त इत्यनेन प्रतिवर्णमन्त्रे स्वाहाकारघटकत्वं सूचितम् । अवयविनो विशिष्टमन्त्रस्य गणपतिदेवताकत्वे तदवयवानामपि तदेवताकत्वं स्पष्टम् । अतः स्वाहाऽन्ते तर्पयामीत्यपि योज्यम् । तथा च मूलस्यैकवर्णः, तत्र बिन्दुयोगोऽपि शिष्टसंप्रदायात्, ततः स्वाहाकार:, ततस्तर्पयामीति पूर्वोक्तम् । एवं चतुर्वारं, ततो मूलेन चतुर्वारम् । एवं सर्वेषु वर्णेषूह्यम् । पूर्वं द्वादशवारं तर्पयित्वेति एको गणः सूचितः । तदुत्तरं चतुर्वारं तर्पयित्वेत्यन्ततर्पणं एको गणः सूचितः । अस्मिन् सूत्रे पुन रित्यनेन त्रयोदशमिथुनतर्पणं अन्यो गणः सूचितः । गणत्रयसूचनफलं च- - एकैकगणस्य एकैकापूर्वजनकत्वात् तन्मध्ये एकस्य विस्मरणे पुनः तद्गुणमारभ्यैव अनुष्ठानं न सकलादिमारभ्य । यथा मन्त्रैकदेशे वर्णलोपे तन्मन्त्रस्यादिमारभ्यावर्तनं तद्वत् । श्री श्रीपती त्येकं गिरिजा गिरिजापतीत्येकं मिथुनं, एवंरीत्या एकं स्त्रीलिङ्गान्तं एकं पुल्लिङ्गान्तं मिथुनं ज्ञेयम् । मदद्र वो तरं न विद्यन्ते विनाः यस्येति व्युत्पत्त्या अविघ्न इति पुल्लिङ्गः । शेषं स्पष्टम् । एवं त्रयोदश मिथुनेषु एकैकां देवतां द्वितीयान्तमुच्चार्य तर्पयामीति योजयेत् । इत्थं चोक्तरीत्या एकदेवतायाश्च तु र्वारं तर्पणं, ततो मूलेन चतुर्वारं कार्य पूर्ववत् । एवमुक्तप्रकारेण क्रमेण निरुतसंख्याकानि तर्पणानि भवन्ति । तदित्थं मूलतर्पणानि २२८ वर्णतर्पणानि ११२ मिथुनतर्पणानि १०४ आहत्य पूर्वोक्तसंख्याकानि ४४४ चतुश्चत्वारिंशदुत्तर चतुश्श त तर्पणा नि भवन्ती त्यर्थः ॥ ३ ॥
८२
या गृहप्रवेशादि विघ्नेश्वरध्यानान्तम्
एवं तर्पणक्रममुक्त्वा पूजाविधिं वक्तुमुपक्रमते -
अथ यागविधिः – गृहमागत्य स्थण्डिलमुपलिप्य द्वारदेश उभयपार्श्वयोर्भद्रकाळ्यै भैरवाय द्वारोर्ध्वे लम्बोदराय नम इति अन्तः प्रविश्य आसनमत्रेण