________________
द्वितीयः खण्ड:-गणनायकपद्धतिः अचतुरावृत्तितर्पणेऽपि चतुरावृत्तितर्पणमिति व्यवहारः । अत्र साध्याकांक्षायां कमियोगाभावात् नायुरारोग्यादि साध्यत्वेनान्वेति । किंतु श्रीगणपत्युपास्त्युपकार एव । अन्यथा “ समिधो यजत्यस्मिन् लोके प्रतितिष्ठति" इति श्रुत्या प्रयाजानामपि प्रतिष्ठाऽऽदिफलापत्तेः । अतः आयुरारोग्यमित्यर्थवादः ॥
तथा च आयुरारोग्यादिप्राप्तये इति न लिखित्वा गणपतिप्रीतये इति संकल्पं निबन्धकारो यल्लिलेख तत् साधु । परं तु नद्यादावित्यारभ्य पञ्चोपचारानाचर्य इत्यन्तप्रापकं प्रमाणं मृग्यम् । स्वबुद्धिरचितमश्रद्धेयमेवेति दिक् ॥ २ ॥
तदेव स्पष्टं विशिनष्टि--
प्रथमं द्वादशवारं मूलमत्रेण तर्पयित्वा मन्त्राष्टाविंशतिवर्णान् खाहाऽन्तानेकैकं चतुर्वारं मूलं च चतुर्वारं तर्पयित्वा पुनः श्रीश्रीपतिगिरिजागिरिजापतिरतिरतिपतिमहीमहीपतिमहालक्ष्मीमहालक्ष्मी - पतिऋद्धयामोदसमृद्धिप्रमोदकान्तिसुमुखमदनावतीदुर्मुखमदद्वाऽविन्नद्राविणीविघ्नकर्तृवसुधाराशंखनि - धिवसुमतीपद्मनिधित्रयोदशमिथुनेष्वेकैकां देवतां चतुर्वारं मूलं चतुर्वारं च तर्पयेत् , एवं चतुश्चत्वारिंशदधिकचतुश्शततर्पणानि भवन्ति ॥३॥
मूलमुच्चार्य तर्पयामि इति मन्त्रेण तर्पणम् । एवमेव अग्रे सर्वत्र मूलस्थले संयोज्यम् । चतुरावृत्तितर्पणमित्यत्र न क्रियाऽऽवृत्तिः विधीयते, किं तु मन्त्रावृत्तिरेव । यद्यपि द्वा द श वा रमिति द्वितीयाऽन्तं स्तोकं पचतीतिवत् क्रियाविशेषणं भवितुमर्हति, तथा च क्रियाऽभ्यास एव सिद्धः, तथाऽप्यस्मिन्नग्रे चतुश्चत्वारिंशदधिकचतुश्शततर्पणानि भवन्ति इति सूत्रस्थसंख्यया कर्मभेदे सिद्धे न क्रियाऽभ्यासो भवितुमर्हति । अतः द्वादशवारमित्यनन्तरं आवृत्तेनेति पूरणीयम् । अत एवाग्रे मूलं च तु र्वा रं ए कै कं चतुर्वा र मित्यनेन मन्त्राभ्यास एव स्पष्टः श्रूयते । यदि