________________
परशुरामकल्पसूत्रम्
निबन्धकारास्तु गणपतिपद्धतौ मन्त्रेषु त्रितारीयोगे कर्तव्ये श्रीमायाकामबीजानां योगमुक्त्वा तत्र प्रमाणं श्रीविद्याऽर्णवतन्त्रं दर्शयामासुः । तच्चिन्त्यम् । तथा हि श्रीक्रमे सर्वत्र मन्त्रादौ त्रितारीति श्यामाक्रमे मन्त्राणामादौ कुमारीयोग इति वाराही क्रमे वाचमुच्चार्य ग्लौं इति च पद्धतावस्यां सर्वे मनवो जप्या इति पराक्रमे सर्वेऽपि पराक्रममनवः सौवर्णपूर्विकाः कार्याः इति सूत्रे पठितत्वात् गणपतिक्रमे अपठिप्यतः सूत्रकारस्य अत्र मन्त्रेषु बीजयोग एव नास्तीति सुस्पष्टं प्रतीयते । तथा सति कथं विद्याऽर्णवतन्त्रानुसरणम् । अथवा श्रीक्रमे वाङ्मायाकमलानां योगस्य वक्ष्यमाणत्वेन श्येनयागे द्रुतनवनीतवत् तस्य सर्वाङ्गत्वात् अस्यापि श्रीविद्याऽङ्गत्वेन प्राप्तौ तं बाधित्वा तन्त्रान्तरानुसरणस्य निर्युक्तिकत्वात्,
८०
स्वशास्त्रे वर्तमानो यः परशास्त्रेण वर्तते । भ्रूणहत्यासमं तस्य स्वशास्त्र' मवमन्यतः ॥
इति स्मृतेश्च ॥
उद्यदादित्यवर्तिने महागणपतये इति दत्वा इत्यस्य संप्रदानत्वेनान्वेति । उद्यदादित्यवर्तिने इत्यनेन तादृशसूर्ये ध्यानं अग्रे सपर्याप्रकरणे वक्ष्यमाणत्या कार्यमिति सूचितम् ॥
निबन्धे त्रिरर्घ्यदानमुक्तम् । तत्र मूलं मृग्यम् । अर्घ्यमित्येकवचनान्तेन विवेयपदेनैकत्वस्य स्पष्टत्वात् । नाप्यभ्यासः, तद्बोधकपदाभावात् । नापि श्रीक्रमोक्तस्यातिदेशः, सूर्यार्थ्यान्तस्यैव वचनेनातिदिष्टत्वात्, तदग्रिमधर्माणामतिदेशे प्रमाणाभावात् ॥ नित्य कृत्यं अग्निहोत्रहोमादि विधाय । एतेन अग्रे वक्ष्यमाणच तुरावृत्ति तर्पणं सन्निधानादर्ध्याङ्गमिति भ्रमो निरस्तः । प्रकरणेनोपास्त्यङ्गमेवेति सूचितम् ॥
अयं चतुरावृत्तितर्पणोत्पत्तिविधिः । तत्र चतुरावृत्तितर्पणमिति कर्मनामधेयं, न तु गुणविधिः, चतुरावृत्तेरग्रे वक्ष्यमाणत्वात् । तथा च " अग्निहोत्रं जुहोति" इत्यत्रेव विभक्तिविपरिणामेन तृतीयान्तार्थत्वं लक्षणया, तस्य धात्वर्थे भावनायां करणत्वेन अन्वयः । चतस्र आवृत्तयोऽभ्यासा यादृशक्रियाऽवयवक्रियासु तच्चतुरावृत्तितर्पणम् । यद्यपि प्रथमतर्पणे द्वादशावृत्तिरस्ति न चतुरावृत्तिः, तथाऽपि सृष्टिन्यायेन भूमात्वमनुसृत्य 2 अर्घ्यदानं – अ,
श्री.
1
• मतिवर्तत :- अ, श्री.