SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् रम्येषु कल्पकुसुमेषु चरन् द्विरेफो रज्येत किं पितृवनदुमगुच्छिकायाम् ।। 3540 चम्पूभारते-III. 12. एकस्मै स्पृहयालूनामिष्टाय सुधियामपि । करस्थमेव ब्रुवते कलहं निधनावधिम् ॥ 855 ! चम्पूरामायणे- V. 25. ग-तदनन्तरमात्मत्यागाय स्पृहयन्त्यां मैथिल्यां मारुतिरियमनुपेक्षणीया तपस्विनीति नीतिममुञ्चन्ती चिन्तां परिगृह्य नेदीयानस्या बभूव ।। 856 || अनघराघवे-~V. 27. 'ग-वत्स गुह स्पृहयामि सुग्रीवहनुमतोर्दर्शनाय । तदृश्यमूकगामिन मार्गमावेदय ।। 357 ॥ ५७५ । क्रुधदुहेासूयार्थानां यं प्रति कोपः । (१. ४. ३७) क्रुधाद्यर्थानां प्रयोगे ये प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति द्रुह्यति ईय॑ति असूयति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्या अक्षमा । असूया गुणेषु दोषाविष्करणम् । अस्मिन्नेव ग्रन्थे श्लो० 351. सीतायै नाक्रुध्यत , नाभ्यसूयत । सीतायाः संप्रदानत्वम् । किरातार्जुनीये-VII. 24. आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियमवमत्य धूर्गतानाम् । सव्याजं निजकरिणीभिरातचिताः प्रस्थानं सुरकरिणः कथंचिदीषुः ॥ 358 ॥ मदानिलाय क्रुभ्यन्तः । तं प्रति कुप्यन्तः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy