________________
पाणिनिसूत्रव्याख्या ५७३ । धारेरुत्तमणः । (१. ४. ३५) धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्ष हरिः । अस्मिन्नेव ग्रन्थे श्लो० 345. एतस्यै धारयन्निवाधमर्थे तिष्ठन्निया ।
५७४ । स्पृहेरीप्सितः। (१.४.३६)
स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । भट्टिकाव्ये-VIII. 75.
तस्यै स्पृहयमाणोऽसौ बहु प्रियमभाषत । सानुनीतिश्च सीतायै नाक्रुध्यन्नाभ्यसूयत ॥ 851 ।।
तस्यै स्पृहयमाणः । तामीप्सन् । भट्टिकाव्ये-VII. 1.
स्पृहयालु कपि स्त्रीभ्यो निद्रालमदयालुवत् ।
श्रद्धालु भ्रामरं धारु सद्रुमद्रौ वद द्रुतम् ॥ 352 ।। स्त्रीभ्यः स्पृहयालुं स्त्रीकामुकं कपि सुग्रीवम् । रघुवंशे-XVI. 42.
वसन् स तस्यां वसतौ रघूणां
पुराणशोभामधिरोपितायाम् । न मैथिलेयः स्पृहयाम्बभूव
भर्ने दिवो नाप्यलकेश्वराय || 353 ॥ मैथिलेयः कुशो दिवो भर्ने अलकेश्वरायापि न स्पृहयाम्बभूव । न गणयामासेत्यर्थः । चम्यूमारते-VI. 38.
अन्तःपुरेषु विहरनयि कीचक त्वं
सैरन्ध्रये स्पृहयसीति विगमेतत् ।