________________
कारकप्रकरणम् भट्टिकाव्ये-VIII. 74.
अशष्यनिलवानोऽसौ सीतायै स्मरमोहितः । . धारयन्निव चैतस्यै वसूनि प्रत्यपद्यत ।। 346 || सीतायै निह्नवानः स्वदौर्जन्यमपहृवानोऽशप्यच्छपथमकार्षीत् । भट्टिकाव्ये--XVII. 48.
अरोदीद्राक्षसानीकमरोदन्नूभुजां पतिः ।
मेथिल्यै चाशपद्धन्तु तां प्राक्रमत चातुरः ।। 346 ।। मैथिल्यै चाशपदाक्रुष्टवान् । भट्टिकाव्ये-~-XVII. 4.
न्यश्यन् शस्त्राण्यभीष्टानि समनाश्च वर्मभिः ।
अध्यासत सुयानानि द्विषद्धयश्चाशपस्तथा ॥ 347 ।। द्विषद्भयोऽशपन्नाकुष्टवन्तः । भट्टिकाव्ये-VIII. 33.
कोपात्काश्चिप्रियः प्रत्तमुपायंसत नासवम् ।
प्रेम जिज्ञासमानाभ्यस्ताभ्योऽशप्यन्त कामिनः ।। 348 ।।
ताभ्यः कामिनोऽशप्यन्त । न मे त्वदन्या प्रियास्तीति तदीयशरीरस्पर्शनेन शपथं चक्रुः । 'शप उपालम्भने' (वा. 911. सू. 2688) इत्यात्मनेपदम् । भट्टिकाव्ये-IV. 15.
ददृशे पर्णशालायां राक्षस्याभीकयाथ सः ।
भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ ॥ 349 ।। सौमित्रये तस्थे । स्वाभिप्रायं प्रकाशयन्ती स्थिता । 'प्रकाशनस्थयारख्ययोश्च' (सू. 2690 ) इति तङ् । भट्टिकाव्ये-VIII. 12.
त्वयि नस्तिष्ठते प्रीतिस्तुभ्यं तिष्ठामहे वयम् ।।
उत्तिष्ठमान मित्रार्थे कस्त्वां न बहु मन्यते ।। 350 ।। वयं तुभ्यं तिष्ठामहे स्वाभिप्राय प्रकाशयामः ।