________________
पाणिनिसूनव्याख्या
माधे-IX. 60. .
तदुपेत्य मा स्म तमुपालभथाः
किल दोषमस्य न हि विना वयम् । इति सम्प्रधार्य रमणाय वधू
विहितागसेऽपि विससर्ज सखीम् ॥ 361॥
वा० । कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा । (1086.) पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ।
५७१ । रुच्यर्थानां श्रीयमाणः । (१. ४. ३३) रुच्यर्थानां धातूनां प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अस्मिन्नेव ग्रन्थे श्लो० 334. कुदृष्टिभ्यो रोचमानः रुचिकरः । अस्मिन्नेव ग्रन्थे श्लो० 310. अपां हि तृप्ताय न वारिधारा स्वदते रोचते। चम्पूरामायणे-II. 46. ग---ततः परिजनकृतावासाल्लुब्धसंज्ञाय राज्ञे कौसल्यासदनमरोचत ।।342 ।। अनर्घराघवे-III. 57. ग-सखे सीरध्वज यदभिरुचितं भवते ।। 348 ॥ मनधराघवे-VII. 182.
वृन्तैरिव ऋतुसहस्रभुवां फलाना___ मालोक्य यूपनिकरैर्मधुरामयोध्याम् । राज्ञामिह प्रवसतां च विचिन्त्य सिद्धि
देवः शचीसहचरोऽपि न रोचते नः ॥ 344 || नोऽस्मभ्यम् । ५७२ । श्लाघसस्थाशपां ज्ञीप्स्यमानः । (१. ४. ३४) एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात् । अस्मिन्नेव अन्थे श्लो० 334. परस्त्रीभ्यः श्लाघमानः ।