________________
कारकप्रकरणम्
भट्टिकाव्ये-VIII. 96.
प्रायुक्त राक्षसीर्मीमा मन्दिराय प्रतिव्रजन् ।
भयानि दत्त सीतायै सर्वा यूयं कृते मम ॥ 335 !! चम्यूरामायणे- V. 29.
ग-एवमभिहितया तया संभूतविरंभतया भयादपेतया तावदनुयुक्तः पवनतन्यो आलिमरणकारणं सुग्रीवस्य सख्यमाख्याय प्राचेतसचेत इव सन्ततसन्निहितरामनाममङ्गलमङ्गुलीयकमस्यै प्रायच्छत् ।। 386 1 . माधे-XV. 15.
यदराज्ञि राजवदिहार्यमुपहितमिदं मुरद्विषि ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलस्सु न महीशवहिषु ।। 387 ॥ . मुरद्विषीति अपात्रताद्योतवार्थमसम्प्रदानविभक्तिनिर्देशः ।
वा० । क्रियया यमभिप्रैति सोऽपि संप्रदानम् । ( 1085.) . पत्ये शेते। कुमारसम्भवे-II. 18.
स्वागतं खानधीकारान्प्रभावैरवलंब्य वः ।
युगपद्यगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ।। 338 !! क्रियाग्रहणाचतुर्थी । भट्टिकाव्ये-III. 29. दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मण च ।
रोरुद्यमानः स तदाभ्यपृच्छद्यथावदाख्यन्नथ वृत्तमस्मै ।। 339 ।। भट्टिकाव्ये-VI. 27.
...गिरिमन्वसृपद्रामो लिप्पुर्जनकसम्भवाम् । .. - तस्मिन्नायोधन वृत्तं लक्ष्मणायाशिषन्महत् ।। 340 ॥ लक्ष्मणायाशिषत् । क्रियाग्रहणाचतुर्थी । शासु अनुशिष्टौ लुङ् । 11