________________
८६
भट्टिकाव्ये - VI. 67.
पाणिनिसूत्रव्याख्या
न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति । देवकाविघाताय धर्मद्रोही महोदये || 359 ||
वर्मा दुह्यतीति धर्मद्रोही ।
चम्पूभारते - II. 9.
गतवस्ते सर्वोत्तरा अपि शरासनेषु दक्षिणा गुरुदक्षिणां कुरुत मां दुह्यतो द्रुपदस्य युधि बलाद् गृहीतस्य समर्पणमिति गुरुणा चोदिताः सर्वेऽप्यहम्पूर्विकया कयाणि विमतेषु कृतावज्ञसेनं याज्ञसेनं पुरं निरुध्य चिरमयुध्यन्त ॥ 860 ||
माघे - XV. 68.
गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
क्षान्तिम हितमनसो जननीखसुरात्मजाय चुकुपुर्न पाण्डवाः ॥ 361 || पाण्डवाः आत्मजाय शिशुपालाय न चुकुपुः न चुकुधुः । रघुवंशे - III. 66.
नहार चान्येन मयूर पत्रिणा शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव || 962
अस्मिन्नेव ग्रन्थे लो० 65. महामपराध्यति क्रुध्यति ।
भट्टिकाव्ये - VIII. 45.
गूहमानः खमाहात्म्यमटित्वा मन्त्रिसंसदः । नृभ्योऽपवमानस्य रावणस्य गृहं ययौ | 363 ॥
नृभ्योऽपवदमानस्य कुप्यतोऽसूयतो द्रुह्यतो वा ।
माघे - XVI. 20.
हरिमर्चितवान्स भूपति
यदि राज्ञस्तव कोऽत्र मत्सरः । न्यसनाय ससौरभस्य क
स्तरुसूनस्य शिरस्यसूयति ॥ 364 ॥