________________
कारकपकरण
माधे-IX. 17. दिक्सोऽनु मित्रमगमद्विलयं
किमिहास्यते बत मयाबलया । रुचिभतुरस्य विरहाधिगमा
दिति सन्ध्ययापि सपदि व्यगमि ।। 291 ।। अनु मित्रमित्यव्ययीभाव समासस्य प्रतिषेधादनु मित्रमिति पदद्वयम् ।
चम्पूरामायणे-I. 31.
तमेनमन्वजायन्त त्रयस्नेतामितेजसः । अग्रजस्यानुकुर्वन्तस्तैस्तैलोकोत्तरैर्गुणैः ।। 292 ।।
५५० । हीने । (१. ४.८६) हीने द्योत्येऽनुः प्राग्वत् । अनुहरि सुराः । हरेहींना इत्यर्थः । भट्टिकाव्ये-VIII. 86.
न त्वं पापानु रामं चेदुर शूरेषु वा ततः !
अपवाह्य छलाद्वीरौ किमर्थं मामिहाहरः ।। 2५३ ।। राममनु रामाद्धीनः । समासप्रतिपादनु राममिति पदद्वयम् । किरातार्जुनीये--XIII. 52.
लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्ष्यभूतयः ।
स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसम्पदः ।। 294 || मिललाममनु मित्रलाभाद्धीना निकृष्टा इत्यर्थः ।
५५१ । उपोऽधिके च । (१. ४, ८७)
अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्सझं स्यात् । 'यस्मादधिकं (सू. 645) इत्यधिके सप्तमी । 'कर्मप्रवचनीययुक्त द्वितीया' (सू. 548) इति हीने द्वितीया। उप मुरेषु हरिः । सुरेभ्योऽधिक इत्यर्थः । उप हरिं सुराः । हरेहींना इत्यर्थः ।