________________
'७०
पाणिनिसूत्रव्याख्या
अन्मिन्नेव ग्रन्थे श्लो० 298. उप शूरेषु शूरेभ्योऽधिक इत्यर्थः ।
भट्टिकाव्ये - VIII. 87.
उप शूरं न ते वृत्तं कथं रात्रिञ्चवराधम ।
यत्सम्प्रत्यप लोकेभ्यो लङ्कायां वसतिर्भयात् ॥ 295 ||
शुरमुप शूरजनाद्धीनम् ।
५५२ | लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः । (१.४.९० )
एम्वर्थेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे, वृक्ष प्रतिपर्यनु वा विद्योतते विद्युत् । स्थम्भृतास्त्याने, भक्तो विष्णुं प्रति पर्यनु वा । भागे, लक्ष्मीहरिं प्रति पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां वृक्षं वृक्ष प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न त्वम् । लक्षणेनाभिप्रती' (सू. 668), ' अनुर्यत्समया' (सु. 669 ), ' यस्य चायाम:' (सू. 670 ) इति वा समासो भवति ।
"
५५३ | अभिरभागे । (१. ४. ९१ )
भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । हरिमभिवर्तते । भक्तो हरिमभि । देवं देवमभिसिञ्चति ।
माघे – XVIII. 4.
क्रोधावेशाद्धावतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् । दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां ब्रेजिरे खड्गलेखाः ॥ 296 ||
प्रत्यमित्रं शत्रुं लक्षीकृत्य । लक्षणे प्रतेः कर्मप्रवचनीयत्वम् । तद्योगे अमित्रमिति द्वितीया । अव्ययीभावसमासो वा ।
1
भट्टिकाव्ये - III. 46.
वैखानसेभ्यः श्रुतरामवार्तास्ततो विसिञ्जानपतत्रिसङ्घम् । अभ्रंलिहायं रविमार्गभङ्गमानंहिरेऽद्रिं प्रति चित्रकूटम् ॥ 297 IF
अद्रिं प्रति लक्षीकृत्य ।