________________
पाणिनिसूत्रव्याख्या
चम्पूरामायणे----I. 2.
उच्चैर्गतिर्जगति सिध्यति धर्मतश्चे
तस्य प्रमा च वचनैः कृतकेतरैश्चेत् । तेषां प्रकाशनदशा च महीसुरैश्चे
त्तानन्तरेण निपतेत्क नु मत्प्रणामः ॥ 8891
५४६ । कर्मप्रवचनीयाः । ( १. ४. ८३.) इत्यधिकृत्य ।
५४७ । अनुलक्षणे । (१. ४. ८४) लक्षणमत्र हेतुः । रक्षणार्थे अनोः कर्नप्रवचनीयसंज्ञा स्यात् ।
५४८ । कर्मप्रवचनीययुक्ते द्वितीया । (२. ३. ८.)
एतेन योगे द्वियीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षित वर्षणमित्यर्थः ।
अस्मिन्नेव अन्ये श्लो० 228. वचनमनु क्रुद्धः । वचनेन हेतुना क्रुद्धा ।
'कर्मप्रवचनीयानां प्रतिषेधः' (वा० 1839. सू. 780 ) इति न समासः । वचनमनु ।
५४९. । तृतीयार्थे । (१. ४. ८५) __ अस्मिन्धोत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववस्मिता सेना । नद्या सह सम्बद्धेत्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 228. पापमनु पापानु पापेन सहेत्यर्थः । कविना स्वातन्त्र्यात् द्वितीयेति योगविभागात् सुप् सुपेति वा समासः कृतः । कर्मप्रवचनीयानां प्रतिषेधः' (वा० 1339. सू. 780) इति अनुपापमित्यव्ययीभावसमासस्य प्रतिषेधः ।
रघुवंशे-VIII. 72.
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । न चकार शरीरममिसात्सह देव्या न तु जीवितेच्छया ।। 290 ।।