________________
कारकप्रकरणम्
शेषाण्यहोयीसुतसम्पदे च
___ वरं वरेण्यो नृपतेरमार्गीत् ।। 284। रघुवंशे-III. 1.
अरिष्टशय्यां परितो विसारिणा
सुजन्मनम्तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो
बभूवुरालेल्यसमर्पिता इव ।। 285 ।। भट्टिकाव्ये -V. I.
निराकरिष्णू वर्तिष्णू वर्धिष्णू परितो रणम् ।
उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ ॥ 286 | चम्पूरामायणे--IV. 3.
ग-तस्मिन्नसमशरसमरसमये पम्पा समया पर्यटन् पर्याकुलहृदयो हृदयदयितां हृदि लक्षयन् लक्ष्मणमिदमभाषत ॥ 287 ॥ माधे-I. 68.
स्मरत्यदो दाशरथिर्भवन्भवा
नमुं वनान्ताद्वनितापहारिणम् । पयोधिमाविद्धचलजलाविलं
विलङ्घय लङ्कां निकषा हनिष्यति ॥ 288 । ५४५ । अन्तरान्तरेणयुक्ते । (२. ३. ४) आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ।
अस्मिन्नेव ग्रन्थे श्लो० 218. वैदेहीम् आत्मानं चेति शेषः । अन्तरा उभयोर्मध्य इत्यर्थः । जयमङ्गलव्याख्याने वैदेहीम् अन्तरा क्रुद्धो वैदेह्या वधे कुपितः । अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे । आधेयश्चात्र वधः । इति ।