________________
पाणिनिसूलव्याख्या
भट्टिकाव्ये-V. 98.
यशस्करसमाचार ख्यातं भुवि दयाकरम् ।
पितुर्वाक्यकरं राम धिक् त्वां दुन्वन्तमत्रपम् ।। 279॥ भट्टिकाव्येV. 40.
अधानि ताटका तेन लज्जाभयविभूषणा ।
स्त्रीजने यदि तच्छ्राव्यं धिक् लोकं क्षुद्रमानसम् ।। 280 1 माधे-IV. 2.
गुर्वीरजस्त्रं दृषदः समन्ता
दुपर्युपर्यम्बुमुचां वितानः। विध्यायमान दिवसस्य भर्तु
मांग पुना रोद्धमिवोन्नमद्भिः ।। 281 ॥ अनवराघवे---VII. 57. ग-कथमुपर्युपरि पुष्करावर्तकालभ्रमुवल्लभः ।। 282 ।। माघे -I. 4.
नवानधोऽधो बृहतः पयोधरान्
समूढकपरपरागपाण्डुरम् । क्षण क्षणोक्षिप्तगजेन्द्रकृत्तिना
___ स्फुटोपमं भूतितितेन शम्भुना ॥ 283 ॥ वा० । अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि । ( 1442. 1443.)
अमितः कृष्णं, परितः कृष्णं, ग्राम समया, निकषा लङ्कां, हा कृष्णाभक्तम् । तस्य शोच्यतेत्यर्थः । बुभुक्षितं न प्रतिभाति किंचित् । 'पर्यभिभ्यां च ' (सू. 1956.) इति तसिल । भट्टिकाव्ये-I. 12. रक्षांसि वेदि परितो निरास्थ
दङ्गान्ययाक्षीदभितः प्रधानम् ।