________________
कारप्रकरणम्
अस्मिन्नेव ग्रन्थ शो० 274. हृदयमिनि कम । अनवराघवे-VII. 129.
श्यामो नाम कटः सोऽयमेतस्याद्भुतकर्मणः ।
छायामप्यधिवास्तव्यैः परं ज्योतिर्निषेव्यते ।। 275 छायामित्याधारस्य कर्मता। भट्टिकाव्ये--V. TE.
कः पण्डितायमानस्त्वामादायामिषसन्निभाम् ।
त्रस्यन्वैरायमाणेभ्यः शून्यमन्ववसद्धनम् ।। 276 ॥ वनमित्यधिकरणस्य कर्मत्वम् । चम्पूरामायणे-I. 12.
तामावसदशरथः सुरवन्दितेन
सङ्कन्दनेन विहितासनसंविभागः । बृन्दारकारिविजये सुरलोकलब्ध
मन्दारमाल्यमधुवासितवासभूमिः ।। 277 11 वा० १ उभसर्वतसोः कार्या घिनुपर्यादिषु त्रिषु ।
द्वितीयाम्रोडितान्तेषु ततोऽन्यत्रापि दृश्यते ।। (1444)
उभयतः कृष्ण गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोके हरिः । अध्यधि लोकम् । अघोऽयो लोकम् । “उपर्यध्यधस:सामीप्ये' (सू. 2143.) इति द्विर्भावः । “उपडिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति वामनः । नैषधे-III, 82.
धिक् तं विधेः पाणिमजातलज्ज
निर्माति यः पर्वणि पूर्णमिन्दुम् । .मन्ये स विज्ञः स्मृततन्मुखश्रीः
कृत्वाधमौज्झद्धरमूर्ध्नि यस्तम् ॥ 278 ।।