________________
प्राग्दिशीयाकरणद
६२.
11
चम्पूभारते-II. 47.
ग-अपरेनिखिलजनानन्दकरे भगवति दिनकरेऽपि मन्देहकुलभवति मुदयगिरिशिखरमधिरूढे ।। 1822 ॥
अपरेयुः । एद्युस् ।
अस्मिन्नेव ग्रन्थे श्लो0 1370. अत्र परंयुमिति एअत्यवान्तः कविः । एद्यविप्रत्ययान्तोऽत्र निपातितः । अपरेरिति पदच्छेदे एवम् ।
१९७१ । प्रकारवचने थाल् । (५. ३. २३)
किमादिभ्यस्थालपत्ययः स्यात् खार्थे । तेन प्रकारेण तथा । यथा । अस्मिन्नेव ग्रन्थे श्लो० 1762. यथा । तथा।
१९७२ । इदमस्थमुः। (५. ३. २४)
थालोऽपवादः ।
वा० । एतदो वाच्यः । ( 3285.) अनेन एतेन वा प्रकारेण इत्थम् । अस्मिन्नेव ग्रन्थे श्लो० 424. इत्थमनेन प्रकारे ।
१९७३ । किमश्च । (५. ३. २५) केन प्रकारेण कथम् । अस्मिन्नेव ग्रन्थे श्लो० 586. कथम् ।
॥ इति प्राग्दिशीयप्रकरणम् ॥
-