________________
॥ अथ प्रागिवीयप्रकरणम् ॥
१९७४ । दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ।
(५. ३. २७)
अस्मिन्नेव ग्रन्थे श्लो० 1438. उदक् । उदीची दिशं प्रतीत्यर्थः । अस्तातिप्रत्ययस्य ' अञ्चेलृक्' (सू. 1980) इति लुक् । 'लुक् तद्धितलुकि ' (सू. 1408) इति स्त्रीप्रत्ययस्यापि लुक् ।
अस्मिन्नेव ग्रन्थे श्लो० 1448. प्रत्यक् पश्चिमद्वारम् । पूर्ववल्लुक् । १९७५ । पूर्वाधरावराणामसिपुरधवश्चैषाम् । (५. ३. ३९)
एभ्योऽस्तात्यर्थेऽसिपत्ययः स्यात् । तद्योगे चैषां क्रमात् पुर् , अध् , अव् इत्यादेशाः स्युः।
१९७६ । अस्ताति च । (५. ३. ४०) अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्या पूर्वस्याः पूर्वा वा दिक् पुरः, पुरस्तात् । अधः, अधस्तात् । अवः, अवस्तात् ।
अस्मिन्नेव अन्थे श्लो० 988. पुरस्तात् पूर्वस्यां दिशि ।
अस्मिन्नेव ग्रन्थे श्लो० 626. पुरस्तात् पूर्वस्यां दिशि । अनेन पूर्वशब्दात्ससभ्यर्थात् अस्तातिप्रत्ययः । पूर्वस्य पुरादेशश्च ।
१९७७ । विभाषावरस्य । (५. ३. ४१) अवरस्य अस्तातौ परे अस् स्याद्वा । अवस्तात् अवरस्तात् ।
१९७८ । दक्षिणोत्तराभ्यामतसुच् । (५. ३. २८)
मस्तातेरपवादः । दक्षिणतः । उत्तरतः । षष्टयतसर्थप्रत्ययेन' ('सू. 609) इति षष्ठी।