________________
६२०
पाणिनिसूत्रव्याख्या
वा० । समानस्य सभावो द्यस् चाहनि । (8245.)
समानेऽहनि सद्यः ।
वा० । पूर्वपूर्वतरयोः परभाव उदारी च प्रत्ययौ संवत्सरे । ( 8246.) पूर्वस्मिन् वत्सरे परुत् । पूर्वतरे वत्सरे परारि ।
वा० । इदम इशू समसण्प्रत्ययश्च संवत्सरे । (8247.)
अस्मिन् संवत्सरे एषमः
वा० । परस्मादेद्यव्यहनि । ( 3248.)
परस्मिन्नहनि परेद्यवि ।
वा ० । इदमोऽश् द्यश्च । (8249.)
अस्मिन्नहनि अद्य ।
वा० । पूर्वान्यान्यतरेतरापराधरो भयोत्तरेभ्य एद्युस् । ( 3250.) पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोर होरुभयेद्युः । वा ० । द्युश्वोभयाद्वक्तव्यः । ( 8251.)
उभयधुः ।
अस्मिन्नव ग्रन्थे लो० 180. अद्य ।
भट्टिकाव्ये - XI. 21.
बीतोष्ठरागाणि हृताञ्जनानि भाखन्ति लोलैरलकैर्मुखानि । प्रातः कृतार्थानि यथा विरेजुस्तथा न पूर्वेद्युरलङ्कृतानि ॥ 1820 ॥ अस्मिन्नेव ग्रन्थे श्लो० 1628. अन्यस्मिन्नहनि अन्येद्युः ।
रघुवंशे—II. 26.
अम्येयुः |
अन्येद्युरात्मानुचरस्य भाव जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्त निरूढघासं गौरीगुरोर्गह्वरमाविवेश ॥ 1821 ॥