________________
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये-IV. 21.
तामुवाच सगौष्ठीने वने स्त्रीपुंसभीषणे ।
असूर्यपश्यरूपा त्वं किमभीरुररायसे ।। 206 !! अभीरुः शूर्पणखा । अमनुष्यत्वादुङ् न ।
वा० अप्राणिजातेश्वारवादीनामुपसंख्यानम् । (2502)
भट्टिकाव्ये-- VIII. 65.
मन्दायमानगमनो हरितायत्तरूं कपिः ।
द्रुमैः शकशकायद्भिर्मारुतेनाट सर्वतः ।। 207 ।। हरितायन्तस्तरवो यस्यां तां हरितायत्तरूम् । अङ् ।
५२२ । बाह्वन्तात्संज्ञायाम् । (४. १. ६७) स्त्रियामुङ् स्यात् । भद्रबाहूः । संज्ञायां किम् । वृत्तबाहुः ।
५२३ । पङ्गोश्व । (४. १. ६८)
वा । श्वशुरस्योकाराकारलोपश्च । (5039) चादूङ् । पुयोगलक्षणस्य ङीषोऽपवादः । रघुवंशे-XIV. 18.
श्वश्रूजनानुष्ठितचारवेषां कीरथस्थां रघुवीरपत्नीम् । प्रासादवातायनदृश्यरन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ॥ 208 ॥
५२४ । ऊरूत्तरपदादौपम्ये । (४. १. ६९) इत्यूप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 17. रम्भे कदलीस्तम्भाविव ऊरू यस्याः सा रम्भोरूः। अस्मिन्नेव ग्रन्थे श्लो० 20. द्विरदनासेव ऊरू यस्याः सा द्विरदनासोरूः । माघे-VI. 24.
निदधिरे दयितोरसि तत्क्षण
स्वपनवारितुषारभृतस्तनाः ।