________________
स्त्रीप्रत्ययप्रकरणम् चम्पूरामायणे-II. 31.
कल्याणवादसुखितां सहसैव कान्तां
कान्तारचारकथया कलुषीचकार । अम्भोदनादमुदितां विपिने मयूरी
संत्रासयन्निव धनुर्ध्वनिना पुलिन्दः ।। 203 ।। मयूरी । अस्त्रीविषयात्किम् । बलाका । अयोपधात्किम् । क्षत्रिया ।
वा० । हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः । (2495)
हयी। गवयी । मुकयी। मानुषी । 'तत आगत' (सू. 1453) इत्यणि डीम् । 'मत्स्यस्य ड्याम् ' (वा. 4198. सू. 499 ) । मत्सी ।
५२० । इतो मनुष्यजातेः । (४. १. ६५) ङीष् स्यात् । दाक्षी । अत इन् । ततो ङीष् । यद्वा तस्यापत्य' (सू. 1088) मित्यण् । 'टिडाणनि' (सू. 470) त्यादिना ङीप् । रघुवंशे-I. 1.
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ 204 ।। अस्मिन्नेव ग्रन्थे श्लो 43. मैथिली मैथिलस्यापत्यम् । अत इञ् । तदन्तात्
ङीष् ।
५२१ । ऊडुतः । (४. १.६६) उकारान्तादयोपधान्मनुष्यवाचिनः स्त्रियामूङ् स्यात् । रघुवंशे--XIII. 24.
त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे।
अदर्शयन्वक्तुमशक्नुवन्त्यः शाखाभिरावर्जितपल्लवाभिः ॥ 205 ॥ भीरु । सम्बुद्धौ ह्रस्वः । अस्मिन्नव ग्रन्थे श्लो० 108. प्रमन्युः प्रकृष्टशोका । अयोपधादिति निषेधा