________________
पाणिनिसूनव्याख्या
५१७ । सख्यशिश्वीति भाषायाम् । (४.१.६२)
सखी । भशिश्वी।
माघे-VII. 8.
न च सुतनु न वेद्मि यन्महीया
नसुनिरसस्तव निश्चयः परेण । वितथयति न जातु मद्वचोऽसा
विति च तथापि सखीषु मेऽभिमानः ॥ 199 ।।
५१८ । जातेरस्त्रीविषयादयोपधात् । (४. १. ६३) ङीष् स्यात् । रघुवंशे-IV. 61.
यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः ॥ 200 ।। यवनी। अस्मिन्नेव ग्रन्थे श्लो० 171. मानुषी । रघुवंशे-XII. 37.
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्रचामित्यवेहि त्वया कृतम् ।। 201 ।। मृगी। व्याघ्री। माघे-VIII. 18.
मुग्धायाः स्मरललितेषु चक्रवाक्या
निःशङ्क दयिततमेन चुम्बितायाः । प्राणेशानभि विदधुर्विधूतहस्ताः
सीत्कारं समुचितमुत्तरं तरुण्यः ॥ 2020 चक्रवाकी।