________________
स्त्रीप्रत्ययप्रकरणम्
जलपरावलिरप्रतिपालित
खसमया समयाज्जगतीधरम् !! 195 ।। नयनपयोधरयोर्वह्वच्कत्वान्न ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 62. अधरनयने च तथा । भट्टिकाव्ये-X. 15.
घनगिरीन्द्रविलङ्घनशालिना
वनगता वनजातिलोचना। जनमता ददृशे जनकात्मजा
तरुमृगेण तरुस्थलशायिनी ।। 196 ।। लोचनं च तथा ।
५१३ । सहनविद्यमानपूर्वाच्च । (४. १. ५७) सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ।
५१४ । नखमुखात्संज्ञायाम् । ( ४. १. ५८) ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् । ताम्रमुखी कन्या ।
रघुवंशे-XII. 51.
राघवास्त्रविदीर्णानां रावण प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराभवत् ॥ 197 || शूर्पवन्नखानि यस्याः सा शूर्पणखा ।
५१५ । दिक्पूर्वपदान्ङीप् । (४. १.६०) कुमारसम्भवे-VII. 18.
तां प्राङ्मुखीं तत्र निवेश्य तन्वीं
क्षण व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाहियमाणनेत्राः
प्रसाधने सन्निहितेऽपि नार्यः ।। 198 ॥