________________
पाणिनिसूलव्याख्या
श्रोणीभारादलसगमना स्तोकनमा स्तनाभ्यां
या तत्र स्यात् युवतिविषये सृष्टिरायेव धातुः ।। 190 ।।
(वृत्तिः) । अङ्गगात्रकण्ठेभ्यो बक्तव्यम् । संयोगोपधादपि । स्वङ्गी खछेत्यादि । नैषधे-I. 85.
जवा लता गन्धवहेन चुम्बिता
करम्बिताङ्गी मकरन्दशीकरैः । दृशा नृपेण स्मितशोभिकुड्मला
दरादराम्यां दरकम्पिनी पपे || 191 ।। अस्मिन्नेव ग्रन्थे श्लो० 151. आनताङ्गीं । ङीष् । चम्यूमारते---VI. 29.
कूपस्य तीरे निवसन्नपाय को वा न धत्ते वद कोमलाङ्गि।
त्वन्नाभिकूपस्य वसन् हि तीरे न दृश्यते सम्प्रति मध्यभागः ।। 192 ॥ चम्पूभारते---VI. 23.
नतगात्रि यदागमेन मां नयसे मोदगिरेरधित्यकाम् ।
चिरपुण्यफलोदयश्रियां दिवसो वैजननस्तदेष मे ॥ 193 ।। कुमारसम्भवे-VII. 85.
ध्रुवेण भर्ना ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन । सा दृष्ट इत्याननमुन्नमय्य हीसनकण्ठी कथमप्युवाच ।। 194 ।।
५१२ । न क्रोडादिवह्वचः । (४. १. ५६) क्रोडादेबचश्च स्वाझान्न ङीष् । कल्याणक्रोडा। अश्वानामुरः क्रोडा। आकृतिगणोऽयम् । सुजघना । माघ-VI. 25.
स्फुरदधीरतटिन्नयना मुहुः
प्रियमिवागलितोरुपयोधरा।