________________
३
स्त्रीप्रत्ययप्रकरणम्
तेन चेत्तत्तथायुतम् ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् । ५११ । नासिकोदरौष्ठजवादन्तकर्णशृङ्गाच । (४. १. ५५.) एभ्यो वा ङीष् । तुङ्गनासिकी तुङ्गनासिकेत्यादि । नैषधे-II. 40.
सरसी: परिशीलितुं मया गमिकर्मीकृतनैकनीकृता ।
अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ।। 186 ।। रघुवंशे-X. 69.
शय्यागतेन रामेण माता शातोदरी बभौ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा || 187 ।। माधे---XIII. 16.
इभकुम्भतुङ्गघटितेतरेतर
स्तनभारदूरविनिवारितोदराः। परिफुल्लगण्डफलकाः परस्परं
परिरेभिरे कुंकुरकौरवस्त्रियः ।। 188 ।। विकल्पान्न ङीप् । चम्पूभारते-VII. 10. इदं निशम्य स्मितलाञ्छितोष्ठया
तत्रोतरा केशकृता प्रणुन्ना । बृहन्नलां सारथिकृत्यदक्षां
भ्रात्रे निवेद्यानयति स्म चैनाम् ॥ 189 ।। ङीष् । मेघसन्देशे--II. 19. तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।