________________
पाणिनिसूत्रव्याख्या
कुमारसम्भवे-IV. 4.
अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ।। 181 ।। माधे--VI. 38.
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमनन्तरं ववलिरे वलिरेचितमध्यमाः ।। 182 ।। पराङ्मुखा इति विकल्पादनीकारः । माघे-~-VI. 3.
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तदा विततान शुकावलिः ।। 183 ॥ अभिताम्रमुखीति ङीष् । कुमारसम्भवे-VII. 59.
विलोचन दक्षिणमञ्जनेन सम्भाव्य तद्वश्चितवामनेत्रा।
तथैव वातायनसनिकर्ष ययौ शलाकामपरा वहन्ती ।184 ।। तद्वञ्चितं वामनेत्रं यस्याः सा तद्वञ्चितवामनेत्रा । असंयोगोपधादिति निषेधान्न ङीष् ।
खाङ्ग विधा---
___अद्रवं मूर्तिमत्स्वाङ्ग प्राणिस्थमविकारजम् ।
सुस्वेदा द्रवत्वात् । सुज्ञाना अमूर्तत्वात् । सुमुखा शाला अप्राणिस्थत्वात् । सुशोफा विकारजत्वात् ।
अतत्स्थं तत्र दृष्टं च सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् । कुमारसम्भवे----V. 68.
चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते ।
अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ।। 185 ॥ विकीर्णकेशास्विति विकल्पान्न ङीष् ।