________________
स्त्रीप्रत्ययप्रकरणम्
४१
अर्याणी अर्या, क्षत्रियाणी क्षत्रिया । पुंयोगे तु अर्थी क्षत्रियी । ' अर्याणी
स्वयम स्यात् क्षत्रिया क्षत्रियाण्यपि II vi. 14. इत्यमरः ।
अस्मिन्नेव मन्ये लो० 107. क्षत्रियाणी ।
अनराघवे - IV. 44.
ग- -आः पाप क्षत्रियायाः पुत्र ! क्षत्रियभ्रूणहत्यापातकिन्नू ! निसर्गनिष्प्राण ft प्रहरणमिक्ष्वाकूणां ब्राह्मणेषु ॥ 177 ||
५०७ । क्तादल्पाख्यायाम् ( ४.१.५१ )
करणादेः कान्तात् स्त्रियां ङीष् स्यात् अल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः । अल्पाख्यायां किम् ? चन्दनलिप्ताङ्गना ।
अनर्धराघवे – IV. 67.
कन्या काचिदिहापि कर्मणि पणः स्यादित्यसूयावलसीतापाङ्गमयूखमांसल मुखज्योत्स्ना विलिप्तीं दिवम् । कुर्वाणेन रवून चकृषे नारायणीयं धनुः
सन्धायाथ शरश्च भार्गवगतिच्छेदादमोघीकृतः ॥ 178 ॥
विलिप्त अल्पविलिप्ताम् ।
५१० | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । ( ४. १.५४ )
वा ङीष् ।
माघे - VI. 18.
इति वदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रमसादुदर श्रिया वलिभयालिभयादभिषस्वजे ॥ 179 ॥
उच्चतरौ स्तनौ यस्याः सोच्चतरस्तनी ङीष् ।
अस्मिन्नेव प्रत्थे श्लो० 134. तपःफलस्तनीम् । ङीष् ।
कुमारसंभवे - III. 89.
पर्याप्तपुष्पस्तवकस्तनाभ्यः स्फुरत्पवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विन शाखा भुजबन्धनानि ॥ 180 ॥
विकल्पे न ङीष् ।
6