________________
पाणिनिसूत्रव्याख्या
किरातार्जुनीये --- IV. 12.
विमुच्यमानैरपि तस्य मन्थरं ___ गवां हिमानीविशदैः कदम्बकैः । शरन्नदीनां पुलिनैः कुतूहलं
गलदुकूलैर्जघनैरिवादधे ।। 174 || भट्टिकाव्ये--IV. 2.
अट'ट्यमानोऽरण्यानीं ससीतः सहलक्ष्मणः ।
बलाद बुभुक्षुणोत्क्षिप्य जहे भीमेन रक्षसा | 175 || महदरण्यमरण्यानी।
वा० । यवादोषे । (2473) दुष्टो यवो यवानी।
वा० । यवनाल्लिप्याम् । ( 3474) यवनानां लिपियवनानी। विश्वगुणादर्श 184.
उपनयनविवाहावुत्सवैकप्रधानौ
कलिविभवत एषां कालभेदानभिज्ञौ । विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते ॥ 176 ।।
वा० । मातुलोपाध्याययोरानुग्वा । मातुलानी - मातुली । उपाध्यायानी - उपाध्यायी । तत्र वा डीप वाच्यः . उपाध्यायी उपाध्याया।
वा० । आचार्यादणत्वं च । (2477 ) आचार्यस्य स्त्री आचार्यानी । पुरोग इत्येव ।
वा० । अर्यक्षत्रियाभ्यां वा खार्थे । (2478)