________________
स्त्रीप्रत्ययप्रकरणम् मघोनः स्त्री मघोनी । शची । मानुषी । — जातेरस्त्री' (सू. 518) इत्यादिना ङीष् ।
वा० । पालकान्तान्न । (2461) वा० । सूर्याद्देवतायां चाप वाच्यः । ( 2471 ) सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् । सूरी कुन्ती। मानुषीयम् । 'सूर्यागस्त्ययोश्छे च ङ्यां च ' (वा. 419५. सू. 499 ) इति ड्यां यलोपः । ५०५ । इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमातुलाचार्यणामानुक ।
(४. १. ४९)
एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्र विधीयते । इतरेषां चतुर्णामुभयम् ।
अस्मिन्नेव ग्रन्थे श्लो० 111. इन्द्रस्य स्त्री इन्द्राणी । वरुणस्य स्त्री वरुणानी । रुद्रस्य स्त्री रुद्राणी । चम्यूभारते-IV. T1.
आपादलम्बिजटमातपमात्रभक्ष
मूर्वीभवद्धजमुदारतपःकृशाङ्गम् । दृष्टयानुगृह्य कुरुवीरमुनीन्द्रमेन
त्रेधा बभूव सुतवत्सलता भवान्याः ॥ 172 ।। भवस्य स्त्री भवानी । 'शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला' I. i37. इत्यमरः।
वा० । हिमारण्ययोर्महत्वे । ( 2472) ___ महद्धिमं हिमानी । 'हिमानी हिमसन्ततिः' I. ii. 19. इति 'महारण्यमरण्यानी' II. iv. 1. इति चामरः । चम्पूभारते-IV. 56.
यस्मिन्हिमानीभृति यक्षवृन्दमङ्गेषु सर्वेष्वपि मन्जुलेषु । नखंपचोष्णं नलिनेक्षणानामरोजमेवातितरामुपास्ते ॥ 173 ||