________________
ऊङभावाद्वेयः ।
सरसचन्दनरेणुरनुक्षण विचकरे च करेण वरोरुभिः || 209 |
वरावूरू यस्याः सा वरोरुः ! अनौपम्ये ऊ न । करेणुकरोरुभिरिति पाठस्तु
स्त्रीप्रत्ययप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 62. नखपदाङ्कितोश्वः । ऊङ् न ।
५२५ | संहितशफलक्षणवामादेश्च । ( ४. १. ७० )
संहितोरूः । सैव शफोरूः । शफाविव खुराविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्श भाद्यच् । लक्षणोरूः । वामोरूः ।
वा० | सहितसहाभ्यां चेति वक्तव्यम् । ( 2503).
हितेन सह सहितावूरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सासहरूः ।
माघे - VIII. 24.
त्रस्यन्ती चलशफरीविघट्टितोरुमोरूर तिशयमाप विभ्रमस्य ।
शुभ्यन्ति प्रसभमहो विनापि हेतो
लाभिः किमु सति कारणे तरुण्यः ॥ 210 ॥
वामौ सुन्दरौ ऊरू यस्या सा वामोरूः । ऊ । विघट्टितावूरू यस्याः सा
विघट्टितोरु: । ऊङ् न ।
इत्युङ् ।
1
किरातार्जुनीये - VIII. 45.
परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः
सखीजनस्यापि विलोकनीयताम् ॥ 211 ॥
५२६ । संज्ञायाम् । (४. १.७२ )