________________
पाणिनिसूत्रव्याख्या कुमारसंभवे-VII. 39.
तासाञ्च पश्चात्कनकप्रभाणां काली कपालाभरणा चकाशे ।
बलाकिनी नीलपयोदराजी दूरं पुरः क्षिप्तशतहदेव ।। 1780 ॥ बलाकिनी बलाकावती । इनिः । ठन्न स्यात् ।
रघुवंशे-~-XI. 15.
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाच्छविः ।
ताटका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ।। 1781 ।। बलाकिनी बलाकावती । इनिः । कालिका घनावलीव प्रादुरास । माधे-XIV. 70.
सत्यवृत्तमपि मायिनं जगद्धमप्युचितनिद्रमर्भकम् ।
जन्म विभ्रतमजं नवं बुधाः यं पुराणपुरुषं प्रचक्षते ॥ 1782 ॥ मायिनं इनिः । ठन्नपि स्यात् । 'अस्माया' (सू. 1928 ) इति विनिरपि । मायावी।
माघे--XIII. 4.
अपदान्तरश्च परितः क्षितिक्षिता
मपतन् द्रुतम्रमितहेमनेमयः । नविमारुताञ्चितपरस्परोपम
क्षितिरेणुकेतुवसनाः पताकिनः ॥ 1783 ॥ पताका एषु सन्तीति पताकिनः । स्थाः ।
माघे--XII. 33.
शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।
एकातपत्रा पृथिवीभृतां गणैरभूद्बहुच्छत्रतया पताकिनी ।। 1784 ॥ पताकिनी सेना । इनिः । ऋन्नेभ्यो डीम् । अस्मिन्नेव ग्रन्थे श्लो० 512. शाखिभिः वृक्षैः । इनिः ।