________________
मत्वीयप्रकरणम्
माधे-V. 42.
सेव्योऽपि सानुनयनाकलनाय यन्त्र
नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शारी
नान्यस्य गन्धमपि मानभृतस्तन्ते ।। 1ॐ शाखी वृक्षः । इनिः । माघे-V. 26.
त्रासाकुलः परिपतन् परितो निवेशान्
पुभिर्न कैश्चिदपि धन्विभिरन्वबन्धि ! तस्थौ तथापि न मृगः क्वचिदङ्गनाना
माकर्णपूर्णनयनेषुहतेक्षणश्रीः !! 1786 !! धन्वी धनुष्मान् । बीद्यादित्वादिनिरिति स्वामी । अस्मिन्नेव ग्रन्थे श्लो० 1758. धन्विभिः ।
अस्मिन्नेव ग्रन्थे श्लो. 1522. धनुः प्रहरणमस्येति धानुष्कः । 'प्रहरणम् ' (सू. 1607) इति ठक् । धनुषा जीवति वा धानुष्कः । वेतनादिभ्यो जीवति । (सू. 1562 ) इति ठक् ।
माघे-XIV. 20.
शब्दितामनपशब्दमुच्चकैर्वाकयलक्षणविदोऽनुवाकयया ।
याज्यया यजनकर्मिणोऽत्यजन् द्रवजारमपदिश्य देवताम् ! 1787 !! यजनकर्मिणः यजनव्यापारवन्तः । ब्रीह्यादिरिनिः ।
किरातार्जुनीये--XI. 59.
शक्तिवैकल्यनम्रस्य निस्सारत्वाल्लवीयसः ।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः ।। 1783 ।। जन्मिनो जन्तोः । ब्रीद्यादिरिनिः ।