________________
५२३
पाणिनिसूत्रव्याख्या
वा । ज्योत्स्नादिभ्य उपसंख्यानम् । ( 3197.) ज्योत्स्नः । तामिनः । ज्योत्स्नादि:-५. ३६.
किरातार्जुनीये--XII. 15.
मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः ।
तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥ 1761 ॥ तापसैः तपस्विभिः । मत्वर्थीयोऽण् । अस्मिन्नव अन्थे श्लो. 634. तापसकुञ्जरेण । चम्पूभारते-I. 39.
यथा यथा सेवनयत्नजन्मना निदाघतोयेन निषिक्तमङ्गकम् । तथा तथावर्धत तापसान्तिके महाविकासा मम भक्तिवल्लरी ॥ 1762 ॥
१९११ । सिकताशर्कराभ्यां च । (५. २. १०४) सैकतो घटः । शार्करः ।
१९१२ । देशे लुबिलचौ च । (५, २. १०५) चादण्मतुप् च । सिकताः सन्त्यस्मिन् देशे सिकताः, सिकतिलः, सैकतः, सिकतावान् । एवं शर्करेत्यादिः ।
किरातार्जुनीये--IV. 6.
कृतोमिरेख शिथिलत्वमायता शनैःशनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥ 1758 ।। सिकता अस्यास्तीति सैकतं पुलिनं देशः । अतो देशे इति चकारादण् । अस्मिन्नेव ग्रन्थे श्लो० 132. सैकतानाम् । अस्मिन्नेव ग्रन्थे श्लो० 709. सैकतम् ।
'स्त्री शर्करा शरिलश्शार्करः शर्करावति ।