________________
मत्वाकरगन् अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै
र्वार्तानुयोगमधुराक्षरया च वाचा ॥ 1748 ||
जटिलान् जटावतः । इलच् । जटाल इत्यत्र 'प्राणिस्थाहातो लजन्यमान्याम् । (सू. 1908 ) इति लच् ।
१९०८ । प्रज्ञाश्रद्धाचास्यो णः । (५. २. १०१)
प्राज्ञः । श्राद्धः । आर्चः। . वा । वृत्तेश्च । (3135.) वार्तः । अनर्घराधवे-V. 40. एष त्रैवर्ण्यमात्रव्यवसितजगतो भार्गवस्यास्त्रगर्भा
दाकृष्टक्षत्रजातिस्त्वमसि पथि गिरामद्य नस्सुप्रभातम् । कक्षोष्मस्वेदसद्यःशमितदशमुखास्फोटकण्डूविकारो
वीरश्राद्धो भुजस्त्वां परिचरतु चिरं चक्षुषी नन्दतां च ॥ 1749 ।। श्राद्धः श्रद्धायुक्तः । णः ।
१९०९ । तपस्सहस्राभ्यां विनीनी । (५. २. १०२) तपस्वी । सहस्री। रघुवंशे-XI. 12.
नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभवोस्तपस्विनः ।। 1750 || तपः एषामस्तीति तपस्विनः । विनिः । अस्मिन्नेव ग्रन्थे श्लो० 1185. तपस्विनः ऋषः । विनिः ।
१९१० । अण् च । (५. २. १०३)
तापसः । साहस्रः।