________________
नत्ववप्रकरणम्
बाहालतैव वहनाद्विरराम शश्वत्
कौतूहलं न तु कदाचन तापसीनाम् !! 1782 || 'मांसलम् । भट्टिकाव्ये-VI. 146.
नामग्राहं कपिभिरशनैः स्तूयमानम्समन्ता
दन्वभाव रघुवृषभयोर्वानरेन्द्रो विराजन् । अभ्यर्णेऽम्भःपतनसमये वर्णलीभूतसार्नु
किष्किन्धादि न्यविशन मधुक्षीवकूजदिरेफम् ।। 1733 ।। वर्णला वर्णवन्तः । मत्वर्थे लच । चम्पूभारते--X. 56.
वीरं तनूजमनुचिन्त्य विलापभाज
धारालदृष्टियुगल धरणौ लुठन्तम् । वाग्भिश्चिरेण वसुवाधिपसंयुतस्तं
विश्वम्भरोऽर्जुनमपि व्यदधादशोकम् ॥ 1734 ।। धारालं दृष्टियुगलम् । अनधराघवे-II. 24.
इयमेभिरालवालैः पदे पदे ग्रन्थिलासु कुत्या । • तीव्रतमा जलवेणिः प्रवहति विश्रम्य विश्रम्य ।। 1785 ।। ग्रन्थिलासु पर्ववतीषु । लच् । अनर्घराघवे-III. 41.
सन्तुष्टे तिसृणां पुरामपि रिपो कण्डूलदोर्मण्डली___ क्रीडाकृतपुनःप्ररूढशिरसो वीरस्य लिप्सोवरम् । याच्नादैन्यपराश्चि यस्य कलहायन्ते मिथस्तं वृणु
त्वं वृष्क्यिभितो मुखानि स दशग्रीवः कथं वर्ण्यताम् ॥ 1786 ।। कण्डूला कपड्युक्ता । उपतापः कण्डूः । लच ।