________________
५८६
पाणिनिसूनव्याख्या
भनघराधवे-- I. 24.
चिरादक्ष्णोजबडयं शमयति समस्तासुरवधू___ कचाकृष्टिक्रीडाप्रसभसुभगभावुकभुजः । त्रिलोकीजङ्घालोज्ज्वलसहजतेजा मनुकुल
प्रसूतिस्सुत्राम्णो विजयसहकृत्वा दशरथः ।। 1729 ॥
अस्मिन्नेव ग्रन्थे श्लो० 769. जिह्वाले।
१९०४ ! सिध्मादिभ्यश्च । (५. २. ९७)
लज्वा स्यात् । सिध्मल: सिध्मवान् । (ग. सू.) । वातदन्तबलललाटानामूङ् च । 116. वातूलः । सिध्मादि:- ५. ३२. चम्पूरामायणे-IV. 28.
अंभोघरोदरविनिर्गतवारिधारा
संमर्दमांसलसमीरसमीर्यमाणैः । आमोदवीचिनिचयैः कुटजप्रसूनै
राकाशमेतदवकाशविहीनमासीत् ।। 1730 ।। मांसलः । लन् ।
अनर्घराघवे-II. 26.
आलवालवलयेषु भूरुहां मांसलस्तिमितमन्तरान्तरा ।
केरलीचिकुरभङ्गिभङ्गुरं सारणीषु पुनरम्बु दृश्यते ॥ 1731 मांसलः । लच् । चम्पूभारते-I. 58.
आदाय भीममतिमांसलमुत्तमाङ्गे.
ऽप्याघ्राय जानुकृतचङ्कममाश्रमान्ते ।