________________
॥ अथ मत्वर्थीयप्रकरणम् ॥
१८४९ । तस्य पूरणे डट् । (५. २. ४८) एकादशानां पूरणः एकादशः । एकादशानां पूरणी एकादशी । टित्त्वान्छीम् ।
अस्मिन्नव ग्रन्थे श्लो० 1576. विंशत् । 'पंक्तिविंशति । (सू' 1725) इति निपातः । त्रिंशतः पूरणं त्रिंशतमम् । अनेन डट् । 'विंशत्यादिभ्यस्तमडन्यतरस्यान , (सू. 1856) इति डटस्तमडागमः ।
__ अस्मिन्नेव ग्रन्थे श्लो० 46. कलां शततमीम् । शतस्य पूरणी शततमी । अनेन डट् । 'नित्यं शतादि ' (सू. 1857 ) इति तमडागमः । टित्वान्डीम् ।
अस्मिन्नेव ग्रन्थे श्लो० 913. द्वाविंशतः पूरणं द्वाविंशम् । भनेन डट् । 'ति विंशतेर्डिति' (सू. 844) इति टिलोपः ।
१८५० । नान्तादसंख्यादेमैट् । (५. २. ४९)
डटो मडागम: स्यात् । पञ्चन् नान्तः । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् , विंशः । असंख्यादेः किम् । एकादशः ।
अस्मिन्नेव अन्थे श्लो० 47. अष्टन नान्तः । अष्टानां पूरणी अष्टमी । तस्य पूरणे. डट् । अनेन मडागमः । टित्त्वान्डीप् ।
अस्मिन्नेव ग्रन्थे श्लो० 45. दशमी दशाम् । दशन् नान्तः । पूर्ववत् ।
१८५१ । षट्कतिकतिपयचतुरां थुक् । (५. २. ५१)
एषां थुगागमः स्याड्डटि । षण्णां पूरणष्षष्ठः । कतियः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः । ......
वा। चतुरस्छयतावाद्यक्षरलेपश्च । (3158.) तुरीयः । तुर्यः ।