________________
५७४
पाणिनिसूत्रव्याख्या
माघे-XV. 42.
विहितागसो मुहुरलयनिजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ।। 1698 ॥ कतिथः कतीनां पूरणः । तस्य पूरणे डट् । अनेन थुगागमः ।
अस्मिन्नेव ग्रन्थे श्लो. 709. उब्छपष्ठाङ्कितसैकतानि । उञ्छानां षष्ठैप्पष्ठ भागैरकितः नि सैकतानि येषां तानि । 'षष्ठाष्टमाभ्यां च' (सू. 1996) इति पष्टशब्दाद्भागार्थेऽन्प्रत्ययः । अत एवापूरणार्थत्वात् 'पूरणगुण' (सू. 705) इत्यादिना न षष्ठीसमासप्रतिषेधः ।
चम्पूरामायणे-V. 30.
ग-महाभाग ! सर्वथास्य दुरात्मनः प्रत्यासीदति मृत्युः । एवमनलाभिधानया विभीषणदुहिता खमात्रा प्रेषितया भाषितम् । अयमप्यनार्यशीलस्तुरीयमुपायमन्तरेण न मामार्थपुत्रस्य समर्पयिष्यति । नियतमहमपि मासादृवं न शक्नुयां प्राणान् कृपणान्धार यितुमिति ।। 1699 ।।
तुरीयम् । छः। नैषधे-IV. 123.
श्रीहर्ष कविराजराजिमकुटालङ्कारहीरस्सुतं
श्रीहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तुर्यः स्थैर्यविचारणप्रकरणभ्रातर्ययं तन्महा
___ काव्येऽत्र व्यगलन्नलस्य चरिते स! निसर्गोज्ज्वलः ॥ 1700 ।। तुर्यः । यत् ।
१८५२ । बहुपूगगणसङ्घस्य तिथुक् । (५. २. ५२) डटि इत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यत एव डट् । बहुतिथ इत्यादि । किरातार्जुनीये--XII. 2.
अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः । तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरण निषीदतः ।। 1701 ॥