________________
पाणिनिसूत्रव्याख्या १८४५ । उभादुदात्तो नित्यम् । (५. २. ४४ ) उभशब्दात्तयपोऽयच् स्यात् । उभयम् । अस्मिन्नेव ग्रन्थे श्लो० 72. उभय्यः उभयविधाः । तयस्यायजादेशः । ङीप् । रघुवंशे-VIII. 23.
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापर्वर्गयोरुभयीं सिद्धिमुभाववापतुः ।। 1696 ।। उभयीम् । पूर्ववत् । चम्यूभारते-VIII. 73.
विनतेः पदयोरनन्तरं विहिताशीः परिरभ्य तं सुत्तम् ।
परिहतुमुवाच पञ्चतामुभयीं धर्मसुतादि सूनुषु ।। 1697 ॥ उभयीम् । पूर्ववत् ।
॥ इति पाञ्चमिकप्रकरणम् ॥