________________
१९५८
पाणिनिसूत्रव्याख्या
अन्धराघवे-VII 88.
बृहत्पात्रप्राप्त्या विततजलमम्भोधिमुदरे
दधावीषदाचं किल कलशजन्मा कुलपतिः । यमाराध्यन्विन्ध्याचलशिखरशोथै कभिषज
विवस्वानाश्वीनं गगननविरोधात्कलयति ।। 1656 ।। रदि: आकाशं आश्वीनमश्वेनैकाहगम्य कलयति करोति । अश्वन यदेकाहेन गम्बते तदाश्वीनम् । खञ् ।
१८२१ । शालीनकौपीने अधृष्टाकार्ययोः । (५. २. २०) शालाप्रवेशमर्हति शालीनोऽधृष्टः । कूपपतनमर्हति कौपीनं पापम् । अस्मिन्नेव ग्रन्थे श्लो० 689. शालीनाया भावः शालीनता । अस्मिन्नेव ग्रन्थे श्लो० 104. शालीनत्वविवर्जिता मधाष्ठयरहिता । माघे-XVI. 88.
लोकालोकव्याहतं धर्मरश्मेः
शालीन वा धाम नालं प्रसर्तुम् । लोकस्याग्रे पश्यतो धृष्टमाशु
क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥ 1657 ॥ शालीनम् ।
१८२२ । वातेन जीवति । (५. २. २१) . बातेन शरीरायासेन जीवति न तु बुद्धिवैभवेन स बातीनः ।
अस्मिन्नेव ग्रन्थे श्लो० 860. नानाजातीया अनियतवृत्तयः उत्सेधजीविनो वाताः । तत्कर्म वातम् । तेन जीवन्तीति व्रातीनाः। खञ् । नानाजातीया अनियतवृत्तयः शरीरमायास्य ये जीवन्ति ते वातास्तेषां यत्कर्म तदपि जातं तेन जीवन्तीति व्रातीनाः। खम्।
१८२३ । साप्तपदीनं सख्यम् । (५. २. २२) सप्तभिः पदैरवाप्यते साप्तपदीनम् ।