________________
पाश्चमिकप्रकरणम्
भट्टिकाव्ये-V. 47.
हरामि समसौमित्री मृगो भूत्वा मृगद्यवौ ।
उद्योगमभ्यमितीणो यथेष्टं त्वञ्च सन्तनु ।। 1653 ।। अभ्यमित्रमभिसपत्नमलंगामी अभ्यमितीणः । चकागस्वः ।
चम्पूभारते-VII. 7.
औदास्य किमिंद कुमार कुरवो गृहन्ति गास्तेऽखिला
स्त्वद्दोष्णोस्समयोऽयमाजिषु परैर्दुप्पापमाप्तुं यशः । देवी केकयनन्दनां कुरु महावीरप्रसूमूध
दागारोह रथ गृहाण च धनुर्यत्स्वाभ्यमित्रीणताम् ।। 1654 || अभ्यमित्रीणः । पूर्ववत्खः ।
१८१९ । गोष्ठात्खञ्भूतपूर्वे । (५. २ १८) गोष्ठो भूतपूर्वो गौष्ठीनो देशः ।
अस्मिन्नव ग्रन्थे श्लो० 206. भूतपूर्व गोष्ठे गौष्टीने । ' गौष्ठीनं भूतपूर्वकम् । II. I. 14. इत्यमरः । खन्।
चम्पूमारते-III. 1.
ग-तत्र वनीभवति वनीपकजनमनीषितपूरकपूरुकुलावनीपसुरमुरभिगोष्ठीने देशे स्मरणमात्रकृतसन्निधानेन सकलशिल्पपारदृश्वना विश्वकर्मणा स्वेनैव कर्मणा निर्मापितं कामनीयकविलोकनसुलभविस्मयभारगुरुतरानमरान् वेढुमक्षमतया मातलमवलम्बमानैर्विमानैरिव कुरुविन्दमणिमन्दिरैरलिहं जम्भरिपुनिदेशेन लम्भिततनामोपपदमिन्द्रप्रस्थमधिष्ठिताय युधिष्ठिराय निवेद्य स्वपुरेऽपि सुषुमामीहशीं परीक्षितमिव स्पन्दनेन यदुनन्दनेन प्रयये ॥ 1655 ॥
गौष्टीने । पूर्ववत्खन् ।
१८२० । अवस्यैकाहगमः । (५. २. १९) एकाहेन गम्यत इत्येकाहगमः । मायनेष्वा ।