________________
५५६
पाणिनित्रव्याख्या
१८१३ । समां समां विजायते । (५. २. १२)
समांसमीना गौः । ' समांसमीना सा यैव प्रतिवर्ष प्रसूयते । II. ix. 722 इत्यमरः ।
१८१६ । अनुग्वलङ्गामी । (५. २. १५) अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ।
१८१७ । अध्वनो यत्खौ । (५. २. १६)
अध्वानमलं गच्छति अध्वन्यः अध्वनीनः । ' ये चाभावकर्मणोः' (सू. 1154) 'आत्माध्वानौ खे' ( सू. 1671 ) इति सूत्रयोरन्यतरेण प्रकृतिभावः ।
अस्मिन्नेव अन्थे श्लो० 1292. अध्वानमलं गामिन. अध्वन्याः । शीघ्रगा इत्यर्थः । यत्प्रत्ययः । ये चाभावकर्मणोः' (सू. 1154) इति प्रकृतिभावः ।
अस्मिन्नेव ग्रन्थे श्लो० 647. अध्वानमलंगामिनमध्वनीनम् । खः । 'आत्मध्वानौ खे' (सू. 1671) इति प्रकृतिभावः ।
अस्मिन्नेव ग्रन्थे श्लो० 1565. अध्वनीनैः । पूर्ववत् । 'उपसर्गादध्वनः । (सू. 958) प्राध्वः । अच् । टिलोपः ।
१८१८ । अभ्यमित्राच्छ च । (५. २. १७)
चाद्यखौ । अभ्यमित्रीयः । अभ्यमिव्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठ गच्छतीत्यर्थः । भट्टिकाव्ये-V. 46.
तमुद्यतनिशातासिं प्रत्युवाच जिजीविषुः ।
मारीचोऽनुनयस्त्रासादभ्यमित्र्यो भवामि ते ॥ 1652 ॥ अमित्रस्याभिमुखमभ्यमित्रम् । आभिमुख्येऽव्ययीभावः । अभ्यमित्रमलङ्गामीत्यस्मिन्नर्थे अत्र चकाराद्यत्वौ चेति यत् ।