________________
पाञ्चमिकप्रकरणम
५५५
अनुरायामे सादृश्ये वा। अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः तं नेयोऽयानयीनः शारः । 'सर्वान्नीनस्तु सर्वान्नभोजी' III. 1. 22. इत्यमरः ।
१८११ । परोऽवरपरम्परपुत्रपौत्रमनुभवति । (५. २. १०)
परांश्चावरांश्चानुभवतीति परोऽवरीणः । परांश्च परतरांश्चानुभवति परम्परीणः । पुत्रपौत्रमनुभवति पुत्रपौत्रीणः । भट्टिकाव्ये-V. 15.
कुरु बुद्धिं कुशाग्रीयामनुकामीनतां त्यज ।
लक्ष्मी परम्परीणां त्वं पुत्रपौत्रीणतां नय ।। 1650 ॥ परांश्च परतरांश्चानुभवतीति परम्परीणा । पितृपितामहादिक्रमागतेत्यर्थः । पुत्रपौत्रीणताम् ।
१८१२ । अवारपारात्यन्तानुकाम गामी । (५. २. ११)
अवारपारं गामी अवारपारीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्त गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः । अनुकाम गामी अनुकामीनः यथेष्ट गन्ता ।
अस्मिन्नेव ग्रन्थे श्लो० 271. त्रिवर्गपारीणम् । त्रयाणां धर्मादीनां वर्गनिवर्गः । तस्य पारीणं पारगामिनम् । प्रत्ययः ।
अस्मिन्नव ग्रन्थे श्लो० 48. अत्यन्तीनत्वमत्यन्तगामित्वम् ।
भट्टिकाव्ये-XXII. 19.
द्रष्टास्वस्तत्र तिम्रो मे मातस्तुष्टान्तरात्मनः । ।
अत्यन्तीनं सखित्वं च प्राप्तास्थो भरताश्रयम् ।। 1651 ।। अत्यन्तीनम् । अत्यन्तगामीत्यस्मिन्चर्ये खः।
अस्मिन्नेव ग्रन्थे श्लो० 1650. अनुक्काम गामी अनुकामीना यथेष्ट गन्ता । खः । 'काम गाम्यनुकामीने बक्तीनस्तथा भृशम् ' II. viii. 77.इत्यमरः ।